अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 2
सूक्त - जगद्बीजं पुरुषः
देवता - अश्वत्थः (वनस्पतिः)
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न्वैबाध॒दोध॑तः। इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ॥
स्वर सहित पद पाठतान् । अ॒श्व॒त्थ॒: । नि: । शृ॒णी॒हि॒ । शत्रू॑न् । वै॒बा॒ध॒ऽदोध॑त: । इन्द्रे॑ण । वृ॒त्र॒ऽघ्ना । मे॒दी । मि॒त्रेण॑ । वरु॑णेन । च॒ ॥६.२॥
स्वर रहित मन्त्र
तानश्वत्थ निः शृणीहि शत्रून्वैबाधदोधतः। इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥
स्वर रहित पद पाठतान् । अश्वत्थ: । नि: । शृणीहि । शत्रून् । वैबाधऽदोधत: । इन्द्रेण । वृत्रऽघ्ना । मेदी । मित्रेण । वरुणेन । च ॥६.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तान्)। प्रसिद्धान्। (अश्वत्थ)। म० १। हे अश्वेषु बलवत्सु। स्थितिशील शूररराजन्। (निः)। निः शेषम्। (शृणीहि)। शॄ हिंसायाम्। घातय (शत्रून्)। अपकारिणः। (वैबाधदोधतः)। तस्येदम्। पा० ४।३।१२०। इति विबाध+अण्। विविधं बाधः प्रतिरोधो यस्य स वैबाधः। दोधतिः क्रुध्यतिकर्मा-निघ० २।१२। नैरुक्तो धातुः-शतृप्रत्ययः। वैबाधान् विबाधकान् दोधतः क्रोधशीलान्। (इन्द्रेण)। ऐश्वर्यवता सूर्येण। (वृत्रघ्ना)। ब्रह्मभ्रूणवृत्रेषु-क्विप्। पा० ३।२।८७। इति वृत्र+हन वधे-क्विप्। अन्धकारं हतवतः। (मेदी)। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति ञिमिदा स्नेहे-णिनि। घञन्ताद्वा मत्वर्थीय इनि। स्नेही। (मित्रेण)। अ० १।३।२। डुमिञ् प्रक्षेपणे-क्त्र। यद्वा। ञिमिदा स्नेहे-त्र। सर्वप्रेरकः। स्नेहवान्। वायुः। मध्यस्थानदेवता-निरु० १०।२१-२२। (वरुणेन)। अ० १।३।३। मध्यस्थानदेवता-निरु० १०।३। वृष्टिजलेन ॥
इस भाष्य को एडिट करें