अथर्ववेद - काण्ड 3/ सूक्त 5/ मन्त्र 6
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - अनुष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑। उ॑प॒स्तीन्प॑र्ण॒ मह्यं॑ त्वं॒ सर्वा॑न्कृण्व॒भितो॒ जना॑न् ॥
स्वर सहित पद पाठये । धीवा॑न: । र॒थ॒ऽका॒रा: । क॒र्मारा॑: । ये । म॒नी॒षिण॑: । उ॒प॒ऽस्तीन् । प॒र्ण॒ । मह्य॑म् । त्वम् । सर्वा॑न् । कृ॒णु॒ । अ॒भित॑: । जना॑न् ॥५.६॥
स्वर रहित मन्त्र
ये धीवानो रथकाराः कर्मारा ये मनीषिणः। उपस्तीन्पर्ण मह्यं त्वं सर्वान्कृण्वभितो जनान् ॥
स्वर रहित पद पाठये । धीवान: । रथऽकारा: । कर्मारा: । ये । मनीषिण: । उपऽस्तीन् । पर्ण । मह्यम् । त्वम् । सर्वान् । कृणु । अभित: । जनान् ॥५.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 5; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(ये)। प्रसिद्धाः। (धीवानः)। ध्याप्योः सम्प्रसारणं च। उ० ४।११५। इति ध्यै चिन्तने-क्वनिप्। ध्यानशीलाः। पण्डिताः। (रथकाराः)। कर्मण्यण्। पा० ३।२।१। इति रथ+कृञ्-अण् विमानादिनिर्मातारः। (कर्माराः)। कर्म+ऋ गतौ-अण् पूर्ववत्। कर्माणि ऋच्छन्ति गच्छन्ति प्राप्नुवन्तीति। विश्वकर्माणः। कर्मकाराः। अस्त्रशस्त्रकारिणः। (मनीषिणः) कॄतॄभ्यामीषन्। उ० ४।२६। इति मनु अवबोधने-ईषन्। टाप्। मनीषा प्रज्ञाऽस्यास्ति व्रीह्यादित्वाद् इनि। यद्वा। ईष गतौ-अ, टाप्। शकन्ध्वादिषु पररूपं वाच्यम्। वार्त्तिकम्। पा० १।१।६४। इति पररूपम्। मनस् ईषा मनस ईषा मनीषा मनोगतिर्बुद्धिः। पूर्ववद्-इनि। मेधाविनः पुरुषाः-निघ० ३।१५। पण्डिताः। (उपस्तीन्)। उप+अस सत्तायाम्, यद्वा, आस उपवेशने-क्तिच्। आदिलोपश्छान्दसः। समीपे विद्यमानान्। उपासीनान्। (पर्ण)। म० १। हे पालक, पूरक। (मह्यम्)। मदर्थम्। (सर्वान्)। अखिलान्। (कृणु)। कुरु। (अभितः)। सर्वतः। (जनान्)। लोकान् ॥
इस भाष्य को एडिट करें