अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - हरिणः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत्। विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ॥
स्वर सहित पद पाठअनु॑ । त्वा॒ । ह॒रि॒ण: । वृषा॑ । प॒त्ऽभि: । च॒तु:ऽभि॑: । अ॒क्र॒मी॒त् । विऽसा॑ने । वि । स्य॒ । गु॒ष्पि॒तम् । यत् । अ॒स्य॒ । क्षे॒त्रि॒यम् । हृ॒दि ॥७.२॥
स्वर रहित मन्त्र
अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥
स्वर रहित पद पाठअनु । त्वा । हरिण: । वृषा । पत्ऽभि: । चतु:ऽभि: । अक्रमीत् । विऽसाने । वि । स्य । गुष्पितम् । यत् । अस्य । क्षेत्रियम् । हृदि ॥७.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अनु)। सह। अनुकूलं व्याप्य। (त्वा)। त्वां मनुष्यम्। (हरिणः)। म० १। विष्णुः। परमेश्वरः। मृगः। (वृषा)। कनिन् युवृषितक्षि०। उ० १।१५६। इति वृषु सेचनप्रजननैश्येषु कनिन्। ऐश्वर्यवान्। इन्द्रः। (पद्भिः)। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३४। इति पद स्थ्यैर्ये गतौ च-अच्। पद्दन्नोमास्०। पा० ६।१।६३ इति। पद् आदेशः। स्थातव्यैः। प्राप्तव्यैः। पदार्थैः। पादैः (चतुर्भिः)। चतेरुरन्। उ० ५।५८। इति चते याचने-उरन्। याचनीयैः। चतुःसंख्याकैर्धर्मार्थकाममोक्षैर्वा। (अक्रमीत्)। क्रमु पादविक्षेपे, गतौ-लुङ्। पादविक्षेपेण प्राप्तवान्। (विषाणे)। म० १। वि+षणु दाने-घञ्। विविधदानेन अथवा (विषाणा) इत्यस्य संबोधनम्। हे शृङ्ग। (वि, स्य)। षो अन्तकर्मणि-लोट्। विनाशय। (गुष्पितम्)। गुफ, गुम्फ ग्रन्थे-क्त। छान्दसं रूपम्। गुफितं गुम्फितं वा ग्रन्थितम्। (यत्)। यत्किंचित्। (अस्य)। समीपवर्तिनः पुरुषस्य। (क्षेत्रियम्)। रोगजातम्। (हृदि)। हृदये ॥
इस भाष्य को एडिट करें