अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 1
सूक्त - अथर्वा
देवता - पृथिवी, वरुणः, वायुः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रधारण सूक्त
आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न्पृथि॒वीमु॒स्रिया॑भिः। अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद्रा॒ष्ट्रं सं॑वे॒श्यं॑ दधातु ॥
स्वर सहित पद पाठआ । या॒तु॒ । मि॒त्र: । ऋ॒तुऽभि॑: । कल्प॑मान: । स॒म्ऽवे॒शय॑न् । पृ॒थि॒वीम् । उ॒स्रिया॑भि: । अथ॑ । अ॒स्मभ्य॑म् । वरु॑ण: । वा॒यु: । अ॒ग्नि: । बृहत् । रा॒ष्ट्रम् । स॒म्ऽवे॒श्य᳡म् । द॒धा॒तु॒ ॥८.१॥
स्वर रहित मन्त्र
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन्पृथिवीमुस्रियाभिः। अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥
स्वर रहित पद पाठआ । यातु । मित्र: । ऋतुऽभि: । कल्पमान: । सम्ऽवेशयन् । पृथिवीम् । उस्रियाभि: । अथ । अस्मभ्यम् । वरुण: । वायु: । अग्नि: । बृहत् । राष्ट्रम् । सम्ऽवेश्यम् । दधातु ॥८.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आयातु)। आगच्छतु। दीप्यतामित्यर्थः। (मित्रः)। अ० १।३।२। मित्रः प्रमीतेस्त्रायते संमिन्वानो द्रवतीति वा मेदयतेर्वा-निरु० १०।२१। सुपि स्थः। पा० ३।२।४। इति प्रमीति+त्रैङ् रक्षणे-क, प्रमीतिशब्दस्य च मिद्भावः। यद्वा, डुमिञ् प्रक्षेपणे-क्त्र। यद्वा, ञिमिदा स्नेहने क्त्र। प्रमीतेर्मरणात् त्राता रक्षको वृष्टिदानेन। लोकान् सम्मिन्वानः प्रक्षिपन् प्रेरयन् आकर्षणेन। शस्यानि स्नेहयति जलेन। यद्वा, मित्रवद् उपकारकः। सूर्यः। (ऋतुभिः)। वसन्ताद्यैः। (कल्पमानः)। कृपू सामर्थ्ये-लटः शानच्। कृपो रो लः पा० ८।२।१८। इति लत्वम्। उपकाराय समर्थः सन्। (संवेशयन्)। संपूर्वाद् विश सुखीकरणो, णिच्, शतृ। सुखीकुर्वन्। (पृथिवीम्)। विस्तीर्णां भूमिम्। (उस्रियाभिः)। स्फायितञ्चिवञ्चि०। उ० २।१३। इति वस निवासे रक्, टाप्। इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९। इति विभक्तौ डियाच्, भिस् इति च छान्दसः प्रयोगः। वसन्त्यत्र रसाः। उस्रैः किरणैः। (अथ)। अपि च। (अस्मभ्यम्)। अस्मदर्थम्। (वरुणः)। वरणीयं जलम्। (वायुः)। पवनः। (अग्निः)। पावकः। (बृहत्)। महत्। (राष्ट्रम्)। अ० १।२६।१। राज्यम्। (संवेश्यम्)। संपूर्वाद् विश सुखीकरणे-अर्हार्थे यत्। (सुखीकरणम्)। योग्यम्। शान्तिदायकम्। (दधातु)। धरतु। विदधातु। करोतु। स्थापयतु। प्रत्येकापेक्षयैकवचनम् ॥
इस भाष्य को एडिट करें