Loading...
अथर्ववेद > काण्ड 3 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 8/ मन्त्र 2
    सूक्त - अथर्वा देवता - धाता, सविता, इन्द्रः, त्वष्टा, अदितिः छन्दः - जगती सूक्तम् - राष्ट्रधारण सूक्त

    धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑। हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥

    स्वर सहित पद पाठ

    धा॒ता । रा॒ति: । स॒वि॒ता । इ॒दम् । जु॒ष॒न्ता॒म् । इन्द्र॑: । त्वष्टा॑ । प्रति॑ । ह॒र्य॒न्तु॒ । मे॒ । वच॑: । हु॒वे । दे॒वीम् । अदि॑तिम् । शूर॑ऽपुत्राम् । स॒ऽजा॒ताना॑म् । म॒ध्य॒मे॒ऽस्था: । यथा॑ । असा॑नि ॥८.२॥


    स्वर रहित मन्त्र

    धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः। हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥

    स्वर रहित पद पाठ

    धाता । राति: । सविता । इदम् । जुषन्ताम् । इन्द्र: । त्वष्टा । प्रति । हर्यन्तु । मे । वच: । हुवे । देवीम् । अदितिम् । शूरऽपुत्राम् । सऽजातानाम् । मध्यमेऽस्था: । यथा । असानि ॥८.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 8; मन्त्र » 2

    टिप्पणीः - २−(धाता)। धारकः। पोषकः। (रातिः)। रा दाने-कर्तरि क्तिच्। दानशीलः। (सविता)। सर्वप्रेरकः। (इदम्)। इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये-कमिन्, न लोपः। परमैश्वर्यकारणम्। (जुषन्ताम्)। जुष तर्के, जुषी प्रीतिसेवनयोः। तर्कयन्तु। विचारयन्तु सेवन्ताम्। (इन्द्रः)। परमैश्वर्यवान्। (त्वष्टा)। अ० २।५।६। देवशिल्पी विश्वकर्मा। (प्रति)। प्रत्यक्षम्। (हर्यन्तु)। हर्य गतिकान्त्योः। कामयन्ताम् सादरं शृण्वन्तु। स्वीकुर्वन्तु। (मे)। मदीयम्। (वचः)। वच कथने, संदेशे च-असुन्। वचनम्। (हुवे)। ह्वेङ् आह्वाने। आह्वयामि। (देवीम्)। दानादिगुणयुक्ताम्। दिव्यगुणवतीम्। (अदितिम्)। अ० २।२८।५। अखण्डव्रताम्। अदीनां देवमातरम्। सुलक्षणां स्त्रियं विद्यां वा (शूरपुत्राम्)। शूरा विक्रान्ताः शौर्योपेताः पुत्रा यस्याः सा तथोक्ता ताम्। वीरुपुत्रवतीम्। (सजातानाम्)। समानजन्मनाम्। बन्धूनाम्। (मध्यमेष्ठाः)। अ० २।६।४। मध्यम+ष्ठा गतिनिवृत्तौ-विच्। सप्तम्या अलुक्। मध्यभवेषु प्रधानेषु स्थिताः। (यथा)। यस्मात् कारणात्। (असानि)। असेर्लोटि। अहं भवानि ॥

    इस भाष्य को एडिट करें
    Top