अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 6
सूक्त - वेनः
देवता - बृहस्पतिः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑। ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥
स्वर सहित पद पाठनू॒नम् । तत् । अ॒स्य॒ । का॒व्य: । हि॒नो॒ति॒ । म॒ह: । दे॒वस्य॑ । पू॒र्व्यस्य॑ । धाम॑ । ए॒ष: । ज॒ज्ञे॒ । ब॒हुऽभि॑: । सा॒कम् । इ॒त्था । पूर्वे॑ । अर्धे॑ । विऽसि॑ते स॒सन् । नु ॥१.६॥
स्वर रहित मन्त्र
नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम। एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन्नु ॥
स्वर रहित पद पाठनूनम् । तत् । अस्य । काव्य: । हिनोति । मह: । देवस्य । पूर्व्यस्य । धाम । एष: । जज्ञे । बहुऽभि: । साकम् । इत्था । पूर्वे । अर्धे । विऽसिते ससन् । नु ॥१.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(नूनम्) निश्चयेन (तत्) प्रसिद्धम् (अस्य) दृश्यमानस्य (काव्यः) ऋहलोर्ण्यत्। पा० ३।१।१२४। इति कबृ स्तुतौ-ण्यत्। बवयोरैक्यम्, यथा, काव्या=बुद्धिः। स्तुत्यः परमेश्वरः (हिनोति) हि गतौ वृद्धौ च। प्रेरयति (महः) विशालम् (देवस्य) प्रकाशमानस्य सूर्यस्य (पूर्वस्य) तस्मै हितम्। पा० ५।१।५। इति पूर्व-यत्। पूर्वाय समस्ताय जगते हितम् (धाम) अ० १।१३।३। प्रभावम्। लोकम्। तेजः (एषः) पुरोवर्त्ती परमेश्वरः (जज्ञे) प्रादुर्बभूव (बहुभिः) असंख्यैर्देवैर्लोकैः (साकम्) सार्धम् (इत्था) था हेतौ च च्छन्दसि। पा० ५।३।२६। इति इदम्-था। अनेन प्रकारेण यथा सूर्यः (पूर्वे) पुर्व पूर्व पूरणे, निवासे-अच्। समस्ते (अर्धे) ऋध वृद्धौ-घञ्। प्रवृद्धे संसारे (विषिते) वि विरोधे। षिञ् बन्धने-क्त। विवृत्ते प्रकाशिते सति (ससन्) षस स्वप्ने-शतृ। निद्रां गच्छन् सन्। प्रलयकालेऽज्ञातदशायां वर्तमान इत्यर्थः ॥
इस भाष्य को एडिट करें