Loading...
अथर्ववेद > काण्ड 4 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 7
    सूक्त - वेनः देवता - बृहस्पतिः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मविद्या सूक्त

    योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गच्छा॑त्। त्वं विश्वे॑षां जनि॒ता यथासः॑ क॒विर्दे॒वो न दभा॑यत्स्व॒धावा॑न् ॥

    स्वर सहित पद पाठ

    य: । अथ॑र्वाणम् । पि॒तर॑म् । दे॒वऽब॑न्धुम् । बृह॒स्पति॑म् । नम॑सा । अव॑ । च॒ । गच्छा॑त् । त्वम् । विश्वे॑षाम् । ज॒नि॒ता । यथा॑ । अस॑: । क॒वि: । दे॒व: । न । दभा॑यत् । स्व॒धाऽवा॑न् ॥१.७॥


    स्वर रहित मन्त्र

    योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गच्छात्। त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥

    स्वर रहित पद पाठ

    य: । अथर्वाणम् । पितरम् । देवऽबन्धुम् । बृहस्पतिम् । नमसा । अव । च । गच्छात् । त्वम् । विश्वेषाम् । जनिता । यथा । अस: । कवि: । देव: । न । दभायत् । स्वधाऽवान् ॥१.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 7

    टिप्पणीः - ७−(यः) यातीति यः। या गतौ-ड। याता। गतिवान्। उद्योगी पुरुषः (अथर्वाणम्) अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति अ+थर्व चरणे=गतौ-वनिप्। वकारलोपो विकल्पेन। न थर्वति न चरतीति अथर्वा निश्चलः परमेश्वरः। यद्वा। अथ+ऋ गतौ-वनिप्। अथ लोकमङ्गलाय ऋच्छति गच्छति व्याप्नोतीति अथर्वा। निश्चलं मङ्गलाय व्यापकं वा परमात्मानम् (पितरम्) अ० १।२।१। पातारं पालयितारं वा-निरु० ४।१९। (देवबन्धुम्) देवानां विदुषां सूर्यादिदिव्यलोकानां वा बन्धुं हितकरं बन्धकं नियामकं वा (बृहस्पतिम्) बृहतां लोकानां रक्षकम् (नमसा) नमस्कारेण। कराभ्यां शिरः संयोगविशेषेण स्वापकर्षसूचकेन व्यापारभेदेन (च) अवधारणे (अव गच्छात्) अवगच्छेत् जानीयात् (त्वम्) अथर्वा वेनो वा परमेश्वरः (विश्वेषाम्) सर्वेषां सुखानाम् (जनिता) अ० २।१।३। जनयिता (यथा) यस्मात् कारणात् (असः) भवेः (कविः) सर्वधातुभ्य इन्। उ० ४।११८। इति कवृ स्तुतौ वर्णे च-इन्। यद्वा अच इः। उ० ४।१३९। इति कु शब्दे-इ। कविः क्रान्तदर्शनो भवति कवतेर्वा निरु० १२।१३। अतीतानागतविप्रकृष्टविषयं युग्पत् ज्ञानं यस्य स क्रान्तदर्शनः-इति देवराजयज्वा निरुक्तटीकाकारः-निघ० ३।१५। मेधावी-निघ० ३।१५। ब्रह्मा पण्डितः। (देवः) दीप्यमानः (न) नहि (दभायत्) दम्भु दम्भे=वञ्चने। छन्दसि शायजपि। पा० ३।१।८४। इति श्नः शायच्। इकारलोपश्च। दभ्नोति वञ्चति (स्वधावान्) अन्नवान्। स्वयं धारणवान् ॥

    इस भाष्य को एडिट करें
    Top