अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 1
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। योऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठय: आ॒त्म॒ऽदा: । ब॒ल॒ऽदा: । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वा: । य: । अ॒स्य । ईशे॑ । द्वि॒ऽपद॑: । य: । चतु॑:ऽपद: । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.१॥
स्वर रहित मन्त्र
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठय: आत्मऽदा: । बलऽदा: । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवा: । य: । अस्य । ईशे । द्विऽपद: । य: । चतु:ऽपद: । कस्मै । देवाय । हविषा । विधेम ॥२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यः) कः परमेश्वरः (आत्मदाः) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति आत्मन्+दाञ् दाने, दैप् शोधने वा-विच्। आत्मनः प्राणस्य आत्मबलस्य दाता शोधयिता वा (बलदाः) इति पूर्ववत् सिद्धिः। शरीरबलस्य दाता शोधयिता वा (यस्य) ईश्वरस्य (विश्वे) सर्वे (उपासते) आस उपवेशने-अदादिः। सेवन्ते। भजन्ते (प्रशिषम्) क्वौ च शास इत्वं भवतीति वक्तव्यम्। वा० पा० ६।४।३४। इति शासु अनुशिष्टौ, इति क्विबन्तस्य उपधाया इत्वम्। शासिवसिघसीनां च। पा० ८।३।६०। इति। षत्वम्। प्रकृष्टं शासनम्। आज्ञाम् (यस्य) या गतौ वा यज पूजायाम्-ड। याति व्याप्नोति यद्वा इज्यते पूज्यते स यः। व्यापकस्य। पूज्यस्य (देवाः) अग्निवायुसूर्यादयः-यथा यजु० १४।२०। (अस्य) दृश्यमानस्य (ईशे) ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। ईष्टे। ईश्वरो भवति (द्विपदः) अ० २।३४।१। पादद्वययुक्तस्य मनुष्यादेः (यः) व्यापकः। यजनीयः (चतुष्पदः) अ० २।३४।१। पादचतुष्टयोपेतस्य गवाश्वादेः (कस्मै) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति कच दीप्तौ वा कमु कान्तौ वा क्रमु पादविक्षेपे गतौ च-ड प्रत्ययः। छान्दसी सर्वनामता। द्वितीयार्थे। चतुर्थी। कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२२। कमिति सुखनाम-निघ० ३।६। काय। दीप्यमानाय प्रजापतये। सुखकारकाय (देवाय) दिव्यगुणाय-यथा दयानन्दभाष्ये, यजु० ४।३५। (हविषा) अ० १।४।३। आत्मदानेन। भक्त्या (विधेम) अ० १।१२।२। परिचरेम। सेवेमहि। परिचरणं कुर्याम ॥
इस भाष्य को एडिट करें