अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 7
हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्। स दा॑धार पृथि॒वीमु॒त द्यां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठहि॒र॒ण्य॒ऽग॒र्भ: । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒त: । पति॑: । एक॑: । आ॒सी॒त् । स: । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.७॥
स्वर रहित मन्त्र
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठहिरण्यऽगर्भ: । सम् । अवर्तत । अग्रे । भूतस्य । जात: । पति: । एक: । आसीत् । स: । दाधार । पृथिवीम् । उत । द्याम् । कस्मै । देवाय । हविषा । विधेम ॥२.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(हिरण्यगर्भः) हिरण्यं व्याख्यातम्-अ० १।९।२। गर्भश्च, अ० ३।१०।१२। हिरण्यगर्भो हिरण्यमयो गर्भो हिरण्यमयो गर्भोऽस्येति-वा निरु० १०।२३। हिरण्यानि सूर्यादितेजांसि गर्भे यस्य स परमात्मा-इति दयानन्दभाष्ये यजु० २५।१०। (सम्) प्रकर्षेण (अवर्तत) वृतु वर्तने-लङ्। वर्तमान आसीत् (अग्रे) सृष्टेः प्राक् (भूतस्य) पृथिव्यप्तेजोवाय्वाकाशपञ्चकस्य वस्तुतत्त्वस्य। उदकस्य-निघ० १।१२। (जातः) उत्पन्नः। प्रादुर्भूतः। प्रसिद्धः सन् (पतिः) अ० १।१।१। पाता। रक्षिता। ईश्वरः। स्वतन्त्रः (एकः) मुख्यः। अद्वितीयः (आसीत्) अभवत् (दाधार) धृञ् धारणे-लिट्। धृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) अ० २।१२।६। प्रकाशम्। सूर्यम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें