Loading...
अथर्ववेद > काण्ड 4 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 3
    सूक्त - वेनः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - आत्मविद्या सूक्त

    यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्। यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    यम् । क्रन्द॑सी॒ इति॑ । अव॑त: । च॒स्क॒भा॒ने इति॑ । भि॒यसा॑ने॒ इति॑ । रोद॑सी॒ इति॑ । अह्व॑येथाम् । यस्य॑ । अ॒सौ । पन्था॑: । रज॑स: । वि॒ऽमान॑: । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.३॥


    स्वर रहित मन्त्र

    यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम्। यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    यम् । क्रन्दसी इति । अवत: । चस्कभाने इति । भियसाने इति । रोदसी इति । अह्वयेथाम् । यस्य । असौ । पन्था: । रजस: । विऽमान: । कस्मै । देवाय । हविषा । विधेम ॥२.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 3

    टिप्पणीः - ३−(यम्) प्रजापतिम् (क्रन्दसी) सर्वधातुभ्य इन्। उ० ४।११८। इति क्रदि आह्वाने रोदने च-असुन्। उगितश्च। पा० ४।१।६। इति ङीप्। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। क्रन्दस्यौ। आक्रोशन्त्यौ। आह्वानं शब्दं वा कुर्वाणे द्वे सेने (अवतः) अव रक्षणगतिकान्तिप्रीत्यादिषु। अत्र गतौ प्राप्तौ-लट्। गच्छतः। प्राप्नुतः। (चस्कभाने) स्कभि प्रतिबन्धे-कानच्। प्रतिबन्धं कुर्वाणे (भियसाने) छन्दस्यसानच् शुजॄभ्याम्। उ० २।८६। इति ञिभी भये-असानच्। बिभ्यत्यौ (रोदसी) अ० ४।१।४। भूतानां निरोधनशीले द्यावापृथिव्यौ (अह्वयेथाम्) ह्वेञ् आह्वाने, स्पर्धायां शब्दे च-लङ्। युवाम् आहूतवत्यौ। (यस्य) कस्य। प्रजापतेः (असौ) प्रसिद्धः। दृश्यमानः (पन्थाः) पतस्थ च। उ० ४।१२। इति पत्लृ गतौ-इन्। मार्गः। (रजसः) अ० ४।१।४। लोकस्य (विमानः) वि+माङ् माने ल्युट्। परिच्छेदकः सर्वमानः। देवरथः। व्योमयानम्। विमानवत्। अन्यद् व्याख्यातम् ॥

    इस भाष्य को एडिट करें
    Top