Loading...
अथर्ववेद > काण्ड 4 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 2/ मन्त्र 5
    सूक्त - वेनः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - आत्मविद्या सूक्त

    यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः। इ॒माश्च॑ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    यस्य॑ । विश्वे॑ । हि॒मऽव॑न्त: । म॒हि॒ऽत्वा । स॒मु॒द्रे । यस्य॑ । र॒साम् । इत् । आ॒हु: । इ॒मा: । च॒ । प्र॒ऽदिश॑: । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.५॥


    स्वर रहित मन्त्र

    यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः। इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    यस्य । विश्वे । हिमऽवन्त: । महिऽत्वा । समुद्रे । यस्य । रसाम् । इत् । आहु: । इमा: । च । प्रऽदिश: । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥२.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५−(यस्य) कस्य। ईश्वरस्य (विश्वे) सर्वे। (हिमवन्तः) भूम्नि मतुप्, मस्य वः। बहुहिमयुक्ता महागिरयः (महित्वा) म० २। महित्वे (समुद्रे) अ० १।३।८। अन्तरिक्षे। पार्थिवसागरे (रसाम्) नन्दिग्रहि०। पा० ३।१।१३४। इति रस शब्दे-पचाद्यच्। यद्वा। रस उदकम्-निघ० १।१२। रसोऽस्त्यस्यामिति रसा। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति रस-अच्। रसा नदी भवति रसतेः शब्दकर्मणः-निरु० ११।२५। नदीम्। जलधाराम् (इत्) एव (आहुः) ब्रुवन्ति (इमाः) दृश्यमानाः (प्रदिशः) प्रकृष्टा दिशाः (बाहू) अ० २।२७।३। भुजद्वयवद् वर्तमानाः। अन्यद् गतम्-म० १ ॥

    इस भाष्य को एडिट करें
    Top