Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 1
    सूक्त - वेनः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - आत्मविद्या सूक्त
    90

    य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। योऽस्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    य: आ॒त्म॒ऽदा: । ब॒ल॒ऽदा: । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वा: । य: । अ॒स्य । ईशे॑ । द्वि॒ऽपद॑: । य: । चतु॑:ऽपद: । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.१॥

    स्वर रहित मन्त्र

    य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः। योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥

    स्वर रहित पद पाठ

    य: आत्मऽदा: । बलऽदा: । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवा: । य: । अस्य । ईशे । द्विऽपद: । य: । चतु:ऽपद: । कस्मै । देवाय । हविषा । विधेम ॥२.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्म विद्या का उपदेश।

    पदार्थ

    (यः) जो (आत्मदाः) प्राण [आत्मबल] का देने वा शुद्ध करनेवाला और (बलदाः) शारीरिक बल का देनेवाला शुद्ध करनेवाला है, (यस्य) जिस (यस्य) व्यापक वा पूजनीय के (प्रशिषम्) उत्तम शासन को (विश्वे) सब (देवाः) देवता [सूर्य चन्द्रादि सब लोक] (उपासते) सेवते हैं, (यः) जो (यः) व्यापक वा पूजनीय (अस्य) इस (द्विपदः) दुपाये और (चतुष्पदः) चौपाये जीव समूह का (ईशे=ईष्टे) ईश्वर है, उस (कस्मै=काय) प्रजापति सुखदाता परमेश्वर की (देवाय) दिव्य गुण के लिये (हविषा) भक्ति के साथ (विधेम) हम सेवा किया करें ॥१॥

    भावार्थ

    जिस परमात्मा की आज्ञा में अग्नि, वायु, सूर्य, चन्द्रमा आदि सब देवता [यजु० १४।२०] और मनुष्य गौ आदि सब प्राणी चलते हैं, उस जगदीश्वर की उपासना करके हम लोग आत्मिक और शारीरिक बल बढ़ाकर सुख भोगें ॥१॥ यह मन्त्र कुछ भेद से ऋ० १०।१२१।२, ३, और य० २५।१३, ११ में है ॥

    टिप्पणी

    १−(यः) कः परमेश्वरः (आत्मदाः) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति आत्मन्+दाञ् दाने, दैप् शोधने वा-विच्। आत्मनः प्राणस्य आत्मबलस्य दाता शोधयिता वा (बलदाः) इति पूर्ववत् सिद्धिः। शरीरबलस्य दाता शोधयिता वा (यस्य) ईश्वरस्य (विश्वे) सर्वे (उपासते) आस उपवेशने-अदादिः। सेवन्ते। भजन्ते (प्रशिषम्) क्वौ च शास इत्वं भवतीति वक्तव्यम्। वा० पा० ६।४।३४। इति शासु अनुशिष्टौ, इति क्विबन्तस्य उपधाया इत्वम्। शासिवसिघसीनां च। पा० ८।३।६०। इति। षत्वम्। प्रकृष्टं शासनम्। आज्ञाम् (यस्य) या गतौ वा यज पूजायाम्-ड। याति व्याप्नोति यद्वा इज्यते पूज्यते स यः। व्यापकस्य। पूज्यस्य (देवाः) अग्निवायुसूर्यादयः-यथा यजु० १४।२०। (अस्य) दृश्यमानस्य (ईशे) ईश ऐश्वर्ये। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। ईष्टे। ईश्वरो भवति (द्विपदः) अ० २।३४।१। पादद्वययुक्तस्य मनुष्यादेः (यः) व्यापकः। यजनीयः (चतुष्पदः) अ० २।३४।१। पादचतुष्टयोपेतस्य गवाश्वादेः (कस्मै) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति कच दीप्तौ वा कमु कान्तौ वा क्रमु पादविक्षेपे गतौ च-ड प्रत्ययः। छान्दसी सर्वनामता। द्वितीयार्थे। चतुर्थी। कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२२। कमिति सुखनाम-निघ० ३।६। काय। दीप्यमानाय प्रजापतये। सुखकारकाय (देवाय) दिव्यगुणाय-यथा दयानन्दभाष्ये, यजु० ४।३५। (हविषा) अ० १।४।३। आत्मदानेन। भक्त्या (विधेम) अ० १।१२।२। परिचरेम। सेवेमहि। परिचरणं कुर्याम ॥

    इंग्लिश (1)

    Subject

    Who to Worship?

    Meaning

    Which lord divine shall we worship with homage and havi? He that is the giver of spiritual courage and vision of the soul, strength of body and mind, whose order and command all enlightened persons and divinities of nature obey all over the world, who rules over the entire world of humanity, animals and birds, that lord of peace and bliss shall we worship with homage and havi.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top