अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 2
सूक्त - ऋभुः
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोहिणी वनस्पति सूक्त
यत्ते॑ रि॒ष्टं यत्ते॑ द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि॑। धा॒ता तद्भ॒द्रया॒ पुनः॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ॥
स्वर सहित पद पाठयत् । ते॒ । रि॒ष्टम् । यत् । ते॒ । द्यु॒त्तम् । अस्ति॑ । पेष्ट्र॑म् । ते॒ । आ॒त्मनि॑ । धा॒ता । तत् । भ॒द्रया॑ । पुन॑: । सम् । द॒ध॒त् । परु॑षा । परु॑: ॥१२.२॥
स्वर रहित मन्त्र
यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि। धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥
स्वर रहित पद पाठयत् । ते । रिष्टम् । यत् । ते । द्युत्तम् । अस्ति । पेष्ट्रम् । ते । आत्मनि । धाता । तत् । भद्रया । पुन: । सम् । दधत् । परुषा । परु: ॥१२.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) अङ्गम् (ते) तव (द्युत्तम्) द्योतते, ज्वलतिकर्मा-निघ० १।१६। द्योतितम्। प्रज्वलितम् (अस्ति) (पेष्ट्रम्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति पिष्लृ चूर्णे-ष्ट्रन्। पिष्टम्। चूर्णितम् (आत्मनि) शरीरे (धाता) पोषयिता पुरुषः (तत्) सर्वमङ्गम् (भद्रया) कल्याण्या क्रियया (पुनः) अवधारणे। द्वितीयवारे (संदधत्) संदधातु संयुनक्तु (परुषा) पर्वणा (परुः) पर्व। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें