Loading...
अथर्ववेद > काण्ड 4 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 6
    सूक्त - ऋभुः देवता - वनस्पतिः छन्दः - त्रिपदा यवमध्या भुरिग्गायत्री सूक्तम् - रोहिणी वनस्पति सूक्त

    स उत्ति॑ष्ठ॒ प्रेहि॒ प्र द्र॑व॒ रथः॑ सुच॒क्रः सु॑प॒विः सु॒नाभिः॒। प्रति॑ तिष्ठो॒र्ध्वः ॥

    स्वर सहित पद पाठ

    स: । उत् । ति॒ष्ठ॒ । प्र । इ॒हि॒ । प्र । द्र॒व॒ । रथ॑: । सु॒ऽच॒क्र: । सु॒ऽप॒वि: । सु॒ऽनाभि॑: । प्रति॑ । ति॒ष्ठ॒ । ऊ॒र्ध्व: ॥१२.६॥


    स्वर रहित मन्त्र

    स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः सुपविः सुनाभिः। प्रति तिष्ठोर्ध्वः ॥

    स्वर रहित पद पाठ

    स: । उत् । तिष्ठ । प्र । इहि । प्र । द्रव । रथ: । सुऽचक्र: । सुऽपवि: । सुऽनाभि: । प्रति । तिष्ठ । ऊर्ध्व: ॥१२.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 6

    टिप्पणीः - ६−(सः) तादृशो विचारवान् त्वम् (उत्तिष्ठ) उद्गच्छ। सावधानो भव (प्रेहि) प्रकर्षेण गच्छ (प्रद्रव) प्रधाव (रथः) हनिकुषिनीरमि०। उ० २।२। इति रमु क्रीडायाम्, वा रंहतेर्गतिकर्मणः क्थन्। रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद् विपरीतस्य रममाणोऽस्मिंस्तिष्ठतीति वा रपतेर्वा रसतेर्वा-निरु–० ९।११। वेगवान्। स्यन्दनो यथा (सुचक्रः) सुदृढैश्चक्रैर्युक्तः (सुपविः) सुदृढः पविर्नेमिश्चक्रधारा यस्य स तथोक्तः (सुनाभिः) दृढया नाभ्या, अच्छिद्रेण युक्तः (प्रति तिष्ठ) प्रतिष्ठितो भव (ऊर्ध्वः) उत्थितः सन् ॥

    इस भाष्य को एडिट करें
    Top