Loading...
अथर्ववेद > काण्ड 4 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 13/ मन्त्र 5
    सूक्त - शन्तातिः देवता - चन्द्रमाः, विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - रोग निवारण सूक्त

    आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः। दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥

    स्वर सहित पद पाठ

    आ । त्वा॒ । अ॒ग॒म॒म् । शंता॑तिऽभि: । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभि: । दक्ष॑म् । ते॒ । उ॒ग्रम् । आ । अ॒भा॒रि॒ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥१३.५॥


    स्वर रहित मन्त्र

    आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः। दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥

    स्वर रहित पद पाठ

    आ । त्वा । अगमम् । शंतातिऽभि: । अथो इति । अरिष्टतातिऽभि: । दक्षम् । ते । उग्रम् । आ । अभारिषम् । परा । यक्ष्मम् । सुवामि । ते ॥१३.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 13; मन्त्र » 5

    टिप्पणीः - ५−(त्वा) त्वां प्राणिनम् (आगमम्) गमेर्लुङि रूपम्। आगतवान् प्राप्तवानस्मि (शंतातिभिः) शिवशमरिष्टस्य करे। पा० ४।४।१४३। इति करणेऽर्थे तातिल् प्रत्ययः। लिति। पा० ६।१।१९३। इति प्रत्ययपूर्व उदात्तः। शंकरैः सुखकरैः कर्मभिः (अथो) अपि च (अरिष्टतातिभिः) पूर्ववत् तातिल्, उदात्तत्वं च। अरिष्टम् अहिंसा। तत्करैः श्रेयोहेतुभिः कर्मभिः (दक्षम्) वृद्धिकरं बलम् (ते) तुभ्यम् (उग्रम्) उद्गूर्णम्। तीव्रम् (आ अभारिषम्) हस्य भकारः। आहार्षम्। आहृतवानस्मि। आनैषम् (यक्ष्मम्) महारोगम् (परा सुवामि) षू प्रेरणे, तौदादिकः। पराङ्मुखं प्रेरयामि (ते) तव ॥

    इस भाष्य को एडिट करें
    Top