अथर्ववेद - काण्ड 4/ सूक्त 13/ मन्त्र 6
सूक्त - शन्तातिः
देवता - चन्द्रमाः, विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - रोग निवारण सूक्त
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः। अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥
स्वर सहित पद पाठअ॒यम् । मे॒ । हस्त॑: । भग॑ऽवान् । अ॒यम् । मे॒ । भग॑वत्ऽतर: । अ॒यम् । मे॒ । वि॒श्वऽभे॑षज: । अ॒यम् । शि॒वऽअ॑भिमदर्शन: ॥१३.६॥
स्वर रहित मन्त्र
अयं मे हस्तो भगवानयं मे भगवत्तरः। अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥
स्वर रहित पद पाठअयम् । मे । हस्त: । भगऽवान् । अयम् । मे । भगवत्ऽतर: । अयम् । मे । विश्वऽभेषज: । अयम् । शिवऽअभिमदर्शन: ॥१३.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 13; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अयम्) दृश्यमानो वामहस्तः (मे) मदीयः (हस्तः) करः (भगवान्) भाग्यवान्। समर्थः (अयम्) दक्षिणहस्तः (भगवत्तरः) वामहस्ताद् अधिकभाग्यवान् (विश्वभेषजः) सर्वरोगनिवर्तकः (शिवाभिमर्शनः) मङ्गलस्पर्शयुक्तः। सुखस्पर्शः ॥
इस भाष्य को एडिट करें