अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुष॑न्तः। छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ॥
स्वर सहित पद पाठये । ते॒ । पाशा॑: । व॒रु॒ण॒ । स॒प्तऽस॑प्त । त्रे॒धा। तिष्ठ॑न्ति । विऽसि॑ता: । रुश॑न्त: । छि॒नन्तु॑ । सर्वे॑ । अनृ॑तम् । वद॑न्तम् । य: । स॒त्य॒ऽवा॒दी । अति॑ । तम् । सृ॒ज॒न्तु॒ ॥१६.६॥
स्वर रहित मन्त्र
ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः। छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥
स्वर रहित पद पाठये । ते । पाशा: । वरुण । सप्तऽसप्त । त्रेधा। तिष्ठन्ति । विऽसिता: । रुशन्त: । छिनन्तु । सर्वे । अनृतम् । वदन्तम् । य: । सत्यऽवादी । अति । तम् । सृजन्तु ॥१६.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(ये) ते तव (पाशाः) अ० १।३१।२। बन्धनानि (वरुण) परमेश्वर (सप्तसप्त) सप्यशूभ्यां तुट् च। उ० १।१५७। इति षप समवाये-कनिन् तुट् च। षप-क्त। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्लुक् मध्यपदलोपश्च। सप्तसप्ताः। सप्तधामभिः पृथिवीजलाग्निवायुविराट्परमाणुप्रकृतिभिः संवेताः संवृद्धाः-यथा [पृथिव्याः सप्त धामभिः] ऋ० १।२२।१६। इत्यत्र दयानन्दभाष्ये (त्रेधा) त्रिप्रकारं भूतभविष्यद्वर्तमानकालेषु (तिष्ठन्ति) वर्त्तन्ते (विषिताः) षिञ् बन्धने-क्त। विविधं बद्धाः। विस्तृताः (रुशन्तः) दुष्टान् दोषान् वा हिंसन्तः (छिनन्तु) छिन्दन्तु (सर्वे) पाशाः (अनृतम्) असत्यम् (वदन्तम्) कथयन्तम् (यः) (सत्यवादी) सत्यवक्ता (तम्) (अति) अत सातत्यगमने-इन्। पूजायाम्। उत्कर्षे। (सृजन्तु) त्यजन्तु मुञ्चन्तु ॥
इस भाष्य को एडिट करें