अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः। आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥
स्वर सहित पद पाठश॒तेन॑ । पाशै॑: । अ॒भि । धे॒हि॒ । व॒रु॒ण॒ । ए॒न॒म् । मा । ते॒ । मो॒चि॒ । अ॒नृ॒त॒ऽवाक् । नृ॒ऽच॒क्ष॒: । आस्ता॑म् । जा॒ल्म: । उ॒दर॑म् । श्रं॒श॒यि॒त्वा । कोश॑:ऽइव । अ॒ब॒न्ध: । प॒रि॒ऽकृ॒त्यमा॑न: ॥१६.७॥
स्वर रहित मन्त्र
शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः। आस्तां जाल्म उदरं श्रंसयित्वा कोश इवाबन्धः परिकृत्यमानः ॥
स्वर रहित पद पाठशतेन । पाशै: । अभि । धेहि । वरुण । एनम् । मा । ते । मोचि । अनृतऽवाक् । नृऽचक्ष: । आस्ताम् । जाल्म: । उदरम् । श्रंशयित्वा । कोश:ऽइव । अबन्ध: । परिऽकृत्यमान: ॥१६.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(शतेन) बहुभिः (पाशैः) दण्डबन्धनैः (अभि धेहि) अभिपूर्वो दधातिर्बन्धने। बधान (वरुण) हे दुष्टनिवारक (एनम्) अनृतवादिनम् (ते) तव (मा मोचि) मुक्तिं न प्राप्नुयात् (अनृतवाक्) मिथ्यावादी (नृचक्षः) चक्षेर्बहुलं शिच्च। उ० ४।२३३। नृ+चक्षिङ्दर्शने-असुन्। हे नृणां मनुष्याणां साध्वसाधुचरित्राणां द्रष्टः (आस्ताम्) तिष्ठतु (जाल्मः) जल अपवारणे-म प्रत्ययः। जालयति दूरी करोति हितज्ञानमिति। पामरः। क्रूरः (उदरम्) उदि दृणातेरलचौ पूर्वपदान्त्यलोपश्च। उ० ५।१९। इति उद्+दॄ विदारे-अच्। उदो दस्य लोपः। उद्विदारणं युद्धम् (श्रंसयित्वा) स्रंसु अवस्रंसने=अधः पतने णिचि क्त्वा, सकारस्य शकारः। स्रंसयित्वा। अधः पातयित्वा (कोशः) कुश संश्लेषे-घञ्। कोशोऽस्त्री कुड्मले, इत्यमरः−२३।२१८। कुड्मलः। विकाशोन्मुखकलिका (इव) यथा (अबन्धः) बन्धेन शाखासंयोगतन्तुना विश्लिष्टः (परिकृत्यमानः) कृती छेदने-कर्मणि यक्, शानच्, मुक् च। परिच्छिद्यमानः ॥
इस भाष्य को एडिट करें