अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॑ वञ्चति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्। द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद्वे॑द॒ वरु॑णस्तृ॒तीयः॑ ॥
स्वर सहित पद पाठय: । तिष्ठ॑ति । चर॑ति । य: । च॒ । वञ्च॑ति । य: । नि॒ऽलाय॑म् । चर॑ति । य: । प्र॒ऽङ्क॑म् । द्वौ । स॒म्ऽनि॒षद्य॑ । यत् । म॒न्त्रय॑ते॒ । इति॑ । राजा॑ । तत् । वे॒द॒ । वरु॑ण: । तृ॒तीय॑: ॥१६.२॥
स्वर रहित मन्त्र
यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम्। द्वौ संनिषद्य यन्मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥
स्वर रहित पद पाठय: । तिष्ठति । चरति । य: । च । वञ्चति । य: । निऽलायम् । चरति । य: । प्रऽङ्कम् । द्वौ । सम्ऽनिषद्य । यत् । मन्त्रयते । इति । राजा । तत् । वेद । वरुण: । तृतीय: ॥१६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यः) पुरुषः (तिष्ठति) स्थितो भवति (चरति) गच्छति (वञ्चति) प्रतारयति। वञ्चनं करोति (निलायन्) नि+ली श्लेषे द्रावणे च-शतृ। निलीनः अदृश्यः सन् (चरति) आचरति (प्रतङ्कम्) प्र+तकि कृच्छ्रजीवने-णमुल्। प्रकृष्टगमनं बहिर्गमनं प्राप्य (द्वौ) यौ पुरुषौ (संनिषद्य) सहोपविश्य (यत्) यत्किञ्चित् कार्यम् (मन्त्रयेते) मत्रि गुप्तभाषणे। रहसि गुप्तं भाषेते (राजा) ईश्वरः (सर्वम्) (वेद) वेत्ति (वरुणः) वरणीयो दुष्टानां निवारको वा (तृतीयः) त्रेः संप्रसारणं च। पा० ५।२।५५। इति त्रि-तीय, संप्रसारणं च। त्रयाणां पूरकः ॥
इस भाष्य को एडिट करें