Loading...
अथर्ववेद > काण्ड 4 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 3
    सूक्त - शुक्रः देवता - अपामार्गो वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - अपामार्ग सूक्त

    अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति। अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः फट्क॑रिक्रति ॥

    स्वर सहित पद पाठ

    अ॒मा । कृ॒त्वा । पा॒प्मान॑म् । य: । तेन॑ । अ॒न्यम् । जिघां॑सति । अश्मा॑न: । तस्या॑म् । द॒ग्धाया॑म् । ब॒हु॒ला: । फट् । क॒रि॒क्र॒ति॒ ॥१८.३॥


    स्वर रहित मन्त्र

    अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति। अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥

    स्वर रहित पद पाठ

    अमा । कृत्वा । पाप्मानम् । य: । तेन । अन्यम् । जिघांसति । अश्मान: । तस्याम् । दग्धायाम् । बहुला: । फट् । करिक्रति ॥१८.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 3

    टिप्पणीः - ३−(अमा) अम गतौ-का। सह (कृत्वा) (पाप्मानम्) अ० ३।३१।१। पाति यस्मात् स पाप्मा। पापम् (यः) शत्रुः (तेन) तर्द हिंसे-ड। तर्दति हिनस्तीति तः। चौरः। म्लेच्छः। चोरेण। पामरेण (अन्यम्) सत्कर्माणम् (जिघांसति) हन्तुमिच्छति (अश्मानः) अ० १।२।२। व्यापनशीलाः पाषाणवद् दृढस्वभावा वा राजपुरुषाः (तस्याम्) पूर्वोक्तायां कृत्यायाम्-म० २। (दग्धायाम्) भस्मीकृतायां नष्टायां सत्याम् (बहुलाः) अ० ३।१४।६। वृद्धिशीलाः (फट्) ञिफला विशरणे-क्विप्। डलयोरैक्यम्। तस्य विशीर्णम् (करिक्रति) करोतेर्यङ्लुगन्तात् लेटि। रुग्रिकौ च लुकि। पा० ७।४।९१। इति अभ्यासस्य रिगागमः। पुनः पुनः कुर्वन्तु ॥

    इस भाष्य को एडिट करें
    Top