Loading...
अथर्ववेद > काण्ड 4 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 4
    सूक्त - शुक्रः देवता - अपामार्गो वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - अपामार्ग सूक्त

    सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्। प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥

    स्वर सहित पद पाठ

    सह॑स्रऽधामन् । विऽशि॑खान् । विऽग्री॑वान् । शा॒य॒य॒ । त्वम् । प्रति॑ । स्म॒ । च॒क्रुषे॑ । कृ॒त्याम् । प्रि॒याम् । प्रि॒यऽव॑ते । ह॒र॒ ॥१८.४॥


    स्वर रहित मन्त्र

    सहस्रधामन्विशिखान्विग्रीवां छायया त्वम्। प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥

    स्वर रहित पद पाठ

    सहस्रऽधामन् । विऽशिखान् । विऽग्रीवान् । शायय । त्वम् । प्रति । स्म । चक्रुषे । कृत्याम् । प्रियाम् । प्रियऽवते । हर ॥१८.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 4

    टिप्पणीः - ४−(सहस्रधामन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति डुधाञ् धारणपोषणदानेषु-मनिन्। हे असंख्यातधारणपोषणदानयुक्त राजन् ! (विशिखान्) शीङो हस्वश्च। उ० ५।२४। इति शीङ् शयने-ख, ह्रस्वो, गुणाभावश्च। यद्वा, शिखि गतौ-क, नलोपः। विरुद्धनिद्रान्। विरुद्धगतीन् (विग्रीवान्) शेवायह्वजिह्वाग्रीवा०। उ० १।१५४। इति गॄ निगरणे-वन्। ग्री इत्यादेशः। विरुद्धं निगलनशीलान् भक्षकान् दुष्टान् (शायय) शीङ् शयने-णिच्। स्वापय। निद्रापय पातय। (त्वम्) (प्रति) प्रत्यक्षम् (स्म) अवश्यम् (चक्रुषे) करोतेः क्वसुः। कृतवते पुरुषाय (कृत्याम्) हिंसां दुष्क्रियाम् (प्रियाम्) प्रीञ् प्रीणने-क, टाप्। भार्य्यां यथा (प्रियावते) प्रियया भार्यया तद्वते (हर) प्रापय=दण्डपीडां प्रापय ॥

    इस भाष्य को एडिट करें
    Top