अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 7
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अ॑पामा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः। अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥
स्वर सहित पद पाठअ॒पा॒मा॒र्ग: । अप॑ । मा॒र्ष्टु॒ । क्षे॒त्रि॒यम् । श॒पथ॑: । च॒ । य: ।अप॑ । अह॑ । या॒तु॒ऽधा॒नी: । अप॑ । सर्वा॑: । अ॒रा॒य्य᳡: ॥१८.७॥
स्वर रहित मन्त्र
अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः। अपाह यातुधानीरप सर्वा अराय्यः ॥
स्वर रहित पद पाठअपामार्ग: । अप । मार्ष्टु । क्षेत्रियम् । शपथ: । च । य: ।अप । अह । यातुऽधानी: । अप । सर्वा: । अराय्य: ॥१८.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(अपामार्गः) अ० ४।१७।६। सर्वथा शोधको राजा (अप मार्ष्टु) मृजूष् शुद्धौ। शोधयतु। अपगमयतु (क्षेत्रियम्) अ० २।८।१। क्षेत्र−घच्। देहे वंशे वा भवं रोगं दोषं वा (शपथः) क्रोशः। दुर्वचनम् (च) (यः) यः, तमपि (अप) अप मार्ष्टु (अह) विनिग्रहे (यातुधानीः) अ० १।२८।२। पीडादायिनीः शत्रुसेनाः (सर्वाः) (अराय्यः) अ० ४।१७५। अलक्ष्मीः ॥
इस भाष्य को एडिट करें