अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 3
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - अनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
दि॒व्यस्य॑ सुप॒र्णस्य॒ तस्य॑ हासि क॒नीनि॑का। सा भूमि॒मा रु॑रोहिथ व॒ह्यं श्रा॒न्ता व॒धूरि॑व ॥
स्वर सहित पद पाठदि॒व्यस्य॑ । सु॒ऽप॒र्णस्य॑ । तस्य॑ । ह॒ । अ॒सि॒ । क॒नीनि॑का । सा । भूमि॑म् । आ । रु॒रो॒हि॒थ॒ । व॒ह्यम् । श्रा॒न्ता । व॒धू:ऽइ॑व ॥२०.३॥
स्वर रहित मन्त्र
दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका। सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥
स्वर रहित पद पाठदिव्यस्य । सुऽपर्णस्य । तस्य । ह । असि । कनीनिका । सा । भूमिम् । आ । रुरोहिथ । वह्यम् । श्रान्ता । वधू:ऽइव ॥२०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(दिव्यस्य) दिव्यस्वभावस्य (सुपर्णस्य) पॄ पालनपूरणयोः-न। सुष्ठु यथावत् पालनीयस्य जीवस्य (तस्य) प्रसिद्धस्य (ह) प्रसिद्धौ (असि) (कनीनिका) कनी दिप्तिकान्तिगतिषु-ईन, कन्, टाप्, अत इत्वम्। कमनीया। यद्वा, चक्षुस्तारावत् प्रदर्शिका (सा) सा त्वं देवी (भूमिम्) योगिनो हृदयभूमिम् (आ रुरोहिथ) आरूढवती, प्राप्तवती (वह्यम्) अघ्न्यादयश्च। उ० ४।११२। इति वह-थक्। यद्वा। वह्यं करणम्। पा० ३।१।१०२। इति वह-यत्। प्रापणीयं पदार्थं स्थानं वा (श्रान्ता) श्रमु तपःखेदयोः=क। अध्वश्रमयुक्ता। शान्ता। जितेन्द्रिया (वधूः) वहेर्धश्च। उ० १।८३। इति वह प्रापणे-ऊ प्रत्ययः, हस्य धः। वहति सुखानि। यद्वा। बन्ध-ऊः, नलोपः, बध्नाति प्रेम्णा या। नारी, स्त्री (इव) यथा ॥
इस भाष्य को एडिट करें