Loading...
अथर्ववेद > काण्ड 4 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 5
    सूक्त - मातृनामा देवता - मातृनामौषधिः छन्दः - अनुष्टुप् सूक्तम् - पिशाचक्षयण सूक्त

    आ॒विष्कृ॑णुष्व रू॒पाणि॒ मात्मान॒मप॑ गूहथाः। अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ॥

    स्वर सहित पद पाठ

    आ॒वि: । कृ॒णु॒ष्व॒ । रू॒पाणि॑ । मा । आ॒त्मान॑म् । अप॑ । गू॒ह॒था॒: ।अथो॒ इति॑ । स॒ह॒स्र॒च॒क्षो॒ इति॑ सहस्रऽचक्षो । त्वम् । प्रति॑ । प॒श्या॒: । कि॒मी॒दिन॑: ॥२०.५॥


    स्वर रहित मन्त्र

    आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः। अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥

    स्वर रहित पद पाठ

    आवि: । कृणुष्व । रूपाणि । मा । आत्मानम् । अप । गूहथा: ।अथो इति । सहस्रचक्षो इति सहस्रऽचक्षो । त्वम् । प्रति । पश्या: । किमीदिन: ॥२०.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 5

    टिप्पणीः - ५−(आविष्कृणुष्व) प्रकटीकुरु। प्रकाशय (रूपाणि) खष्पशिल्पशष्प०। उ० ३।२८। इति रु शब्दे-प प्रत्ययः, दीर्घश्च। यद्वा, रूप रूपस्य दर्शने करणे वा-अच्। पदार्थानां बाह्याकारान् (मा अप गूहथाः) गुहू संवरणे। संवृतम् आच्छादितं मा कार्षीः (आत्मानम्) अ० १।१८।३। पदार्थानां सूक्ष्मस्वभावं सारं तत्त्वं वा (अथो) अपि च (सहस्रचक्षो) भृमृशीङ्०। उ० १।७। इति चक्षिङ् कथने दर्शने च-ड। हे बहुदर्शनशक्ते परमात्मन् (त्वम्)। (प्रति) प्रत्यक्षम् (पश्य) दृशेर्लेटि आडागमः। अवलोकय (किमीदिनः) अ० १।७।१। किमिदानीं वर्तते किमिदं वर्तते-इत्येवमन्वेषमाणान् पिशुनान् राक्षसान् ॥

    इस भाष्य को एडिट करें
    Top