अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 2
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै ॥
स्वर सहित पद पाठआ । इ॒मम् । भ॒ज॒ । ग्रामे॑ । अश्वे॑षु । गोषु॑ । नि: । तम् । भ॒ज॒ । य: । अ॒मित्र॑: । अ॒स्य । वर्ष्म॑ । क्ष॒त्राणा॑म् । अ॒यम् । अ॒स्तु॒ । राजा॑ । इन्द्र॑ । शत्रु॑म् । र॒न्ध॒य॒ । सर्व॑म् । अ॒स्मै ॥२२.२॥
स्वर रहित मन्त्र
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य। वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥
स्वर रहित पद पाठआ । इमम् । भज । ग्रामे । अश्वेषु । गोषु । नि: । तम् । भज । य: । अमित्र: । अस्य । वर्ष्म । क्षत्राणाम् । अयम् । अस्तु । राजा । इन्द्र । शत्रुम् । रन्धय । सर्वम् । अस्मै ॥२२.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(इमम्) राजानम् (आ भज) भज सेवाविश्राणनयोः। समन्तात् सेवस्व। भागं देहि (ग्रामे) अ० ४।७।५। वसतौ। (अश्वेषु) तुरङ्गेषु (गोषु) धेन्वादिपशुषु (तम्) शत्रुम् (निर्भज) निर्भक्तं वियुक्तं कुरु (यः) (अमित्रः) पीडकः शत्रुः (अस्य) राज्ञः (वर्ष्म) अ० ३।४।२। उन्नतस्थानम्। शिरोवदुन्नतः (क्षणात्राम्) अ० २।१५।४। क्षतस्त्रायकाणां क्षत्रियाणां मध्ये (अस्तु) (राजा) (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (शत्रुम्) रिपुम् (रन्धय) म० १। वशीकुरु (सर्वम्) (अस्मै) राजहिताय ॥
इस भाष्य को एडिट करें