अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 7
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
सिं॒हप्र॑तीको॒ विशो॑ अद्धि॒ सर्वा॑ व्या॒घ्रप्र॑ती॒कोऽव॑ बाधस्व॒ शत्रू॑न्। ए॑कवृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा खि॑दा॒ भोज॑नानि ॥
स्वर सहित पद पाठसिं॒हऽप्र॑तीक: । विश॑: । अ॒ध्दि॒ । सर्वा॑: । व्या॒घ्रऽप्र॑तीक: । अव॑ । बा॒ध॒स्व॒ । शत्रू॑न् । ए॒क॒ऽवृ॒ष: । इन्द्र॑ऽसखा । जि॒गी॒वान् । श॒त्रु॒ऽय॒ताम् । आ । खि॒द॒ । भोज॑नानि ॥२२.७॥
स्वर रहित मन्त्र
सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून्। एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥
स्वर रहित पद पाठसिंहऽप्रतीक: । विश: । अध्दि । सर्वा: । व्याघ्रऽप्रतीक: । अव । बाधस्व । शत्रून् । एकऽवृष: । इन्द्रऽसखा । जिगीवान् । शत्रुऽयताम् । आ । खिद । भोजनानि ॥२२.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(सिंहप्रतीकः) सिंह इति। गतम्-अ० ४।८।७। अलीकादयश्च। उ० ४।२५। इति प्रति+इण् गतौ-कीकन्। प्रतीयते स प्रतीकः। प्रतीतिः ख्यातिः। सिंहतुल्यपराक्रमः (विशः) प्रजाः शत्रूणाम् (अद्धि) अद भक्षणे-लोट्। भुङ् क्षत्र नाशय (सर्वाः) सकलाः (व्याघ्रप्रतीकः) व्याघ्रवदाक्रमणशीलः (अव बाधस्व) निवारय (शत्रून्) शातयितॄन्। हिंसकान् (आखिद) खिद दैन्ये परिघाते च। आङ् पूर्वः खिदिः आच्छेदने। आच्छिन्धि। अपहरेत्यर्थः। अन्यद् व्याख्यातं म० ६ ॥
इस भाष्य को एडिट करें