Loading...
अथर्ववेद > काण्ड 4 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 5
    सूक्त - वसिष्ठः, अथर्वा वा देवता - इन्द्रः, क्षत्रियो राजा छन्दः - त्रिष्टुप् सूक्तम् - अमित्रक्षयण सूक्त

    यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥

    स्वर सहित पद पाठ

    यु॒नज्मि॑ । ते॒ । उ॒त्त॒रऽव॑न्तम् । इन्द्र॑म् । येन॑ । जय॑न्ति । न । प॒रा॒ऽजय॑न्ते । य: । त्वा॒ । कर॑त् । ए॒क॒ऽवृ॒षम् । जना॑नाम् । उ॒त । राज्ञा॑म् । उ॒त्ऽत॒मम् । मा॒न॒वाना॑म्॥२२.५॥


    स्वर रहित मन्त्र

    युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते। यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥

    स्वर रहित पद पाठ

    युनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 5

    टिप्पणीः - ५−(युनज्मि) योजयामि (ते) तुभ्यम् (उत्तरावन्तम्) छान्दसो दीर्घः। अत्युत्कृष्टगुणयुक्तम् (इन्द्रम्) परमात्मानम् (येन) इन्द्रेण सह (जयन्ति) शूरा जयं प्राप्नुवन्ति (न) निषेधे (पराजयन्ते) विपराभ्यां जेः। पा० १।३।१९। इति आत्मनेपदम्। शत्रुभ्यः सकाशात् पराभवं प्राप्नुवन्ति (यः) इन्द्रः (त्वा) त्वां राजानम् (करत्) करोतेर्लेट्। लेटोऽडाटौ। पा० ३।४।९४। इति अडागमः। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इति इकारलोपः। कुर्यात् (एकवृषम्) म० १। अद्वितीयं सुखसेचकं सार्वभौमम् (जनानाम्) शूरजनानाम् (उत) अपि च (राज्ञाम्) क्षत्रियाणाम् (उत्तमम्) पुण्यं सर्वश्रेष्ठं प्रजापरिपालनशौर्यादिगुणैरुत्कृष्टम् (मानवानाम्) तस्येदम्। पा० ४।३।१२०। इति। मनु-अण्। मननशीलानाम्। यद्वा। छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति मान-व प्रत्ययो मत्वर्थे। मान्यानाम् ॥

    इस भाष्य को एडिट करें
    Top