Loading...
अथर्ववेद > काण्ड 4 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 1
    सूक्त - मृगारः देवता - प्रचेता अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑। विशो॑विशः प्रविशि॒वांस॑मीमहे॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    अ॒ग्ने: । म॒न्वे॒ । प्र॒थ॒मस्य॑ । प्रऽचे॑तस: । पाञ्च॑ऽजन्यस्य । ब॒हु॒ऽधा । यम् । इ॒न्धते॑ । विश॑:ऽविश: । प्र॒वि॒शि॒ऽवास॑म् । ई॒म॒हे॒ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.१॥


    स्वर रहित मन्त्र

    अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते। विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    अग्ने: । मन्वे । प्रथमस्य । प्रऽचेतस: । पाञ्चऽजन्यस्य । बहुऽधा । यम् । इन्धते । विश:ऽविश: । प्रविशिऽवासम् । ईमहे । स: । न: । मुञ्चतु । अंहस: ॥२३.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 1

    टिप्पणीः - १−(अग्नेः) सर्वव्यापकस्य परमेश्वरस्य (मन्वे) मनु अवबोधने। मननं करोमि (प्रथमस्य) आद्यस्य। मुख्यस्य (प्रचेतसः) प्रकृष्टज्ञानस्य (पाञ्चजन्यस्य) पञ्चजनाः, इति मनुष्यनाम-निघ० २।३। पञ्चभिर्भूतैर्जाताः, इत्यर्थः। तस्मै हितम्। पा० ५।१।५। इति पञ्चजन-ञ्य। पञ्चजनेभ्यो मनुष्येभ्यो हितस्य (बहुधा) बहुप्रकारेण (यम्) अग्निम् (इन्धते) दीपयन्ति प्रकाशयन्ति (विशोविशः) विश आवेशने-क्विप्। सर्वप्रवेशस्थानानि। सर्वाः प्रजाः (प्रविशिवांसम्) विश प्रवेशने। छान्दसं रूपम्। प्रविशिवांसम्। प्रविष्टवन्तम्। (ईमहे) ईङ्गतौ। प्राप्नुमः। वाचामहे-निघ० ३।१९। (सः) अग्निः (नः) अस्मान् (मुञ्चतु) मोचयतु वियोजयतु (अंहसः) अ० २।४।३। अमेर्हुक्च। उ० ४।२१३। इति अम रोगे, पीडने-असुन्, हुक् च। रोगात् पीडकात् कष्टात् ॥

    इस भाष्य को एडिट करें
    Top