Loading...
अथर्ववेद > काण्ड 4 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 5
    सूक्त - मृगारः देवता - प्रचेता अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    येन॒ ऋष॑यो ब॒लमद्यो॑तयन्यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः। येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    येन॑ । ऋष॑य: । ब॒लम् । अद्यो॑तयन् । यु॒जा । येन॑ । असु॑राणाम् । अयु॑वन्त । मा॒या: । येन॑ । अ॒ग्निना॑ । प॒णीन् । इन्द्र॑: । जि॒गाय॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.५॥


    स्वर रहित मन्त्र

    येन ऋषयो बलमद्योतयन्युजा येनासुराणामयुवन्त मायाः। येनाग्निना पणीनिन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    येन । ऋषय: । बलम् । अद्योतयन् । युजा । येन । असुराणाम् । अयुवन्त । माया: । येन । अग्निना । पणीन् । इन्द्र: । जिगाय । स: । न: । मुञ्चतु । अंहस: ॥२३.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 5

    टिप्पणीः - ५−(येन) अग्निना परमेश्वरेण (ऋषयः) अ० २।६।१। ऋषिर्दर्शनात्-निरु० २।१। साक्षात्कृतधर्म्माणः। सन्मार्गदर्शकाः। अतीन्द्रियार्थदर्शिनः (बलम्) सामर्थ्यम् (अद्योतयन्) द्युत दीप्तौ णिचि लङि रूपम्। अदीपयन् (युजा) सख्या, मित्रेण सह (असुराणाम्) सुरविरोधिनाम्। खलानाम् (अयुवन्त) यु मिश्रणामिश्रणयोः−आत्मनेपदं छान्दसम्। अयुवन्। पृथक् कृतवन्तः (मायाः) माछाशसिभ्यो यः। उ० ४।१०९। इति माङ् माने-य। टाप्। प्रज्ञाः-निघ० ३।९। छलानि। मिथ्याजालान् (अग्निना) परमात्मना (पणीन्) सर्वधातुभ्य इन्। उ० ४।११८। इति पण व्यवहारे स्तुतौ च-इन्। पणिर्वणिग्भवति पणिः पणनात्-निरु० २।१७। कुव्यवहारिणः पुरुषान् (इन्द्रः) परमैश्वर्य्यवान् पुरुषः (जिगाय) जि जये-लिट्। जितवान् अन्यत् पूर्ववत् म० १ ॥

    इस भाष्य को एडिट करें
    Top