Loading...
अथर्ववेद > काण्ड 4 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 7
    सूक्त - मृगारः देवता - प्रचेता अग्निः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यस्ये॒दं प्र॒दिशि॒ यद्वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यं॑ च॒ केव॑लम्। स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    यस्य॑ । इ॒दम् । प्र॒ऽदिशि॑ । यत् । वि॒ऽरोच॑ते । यत् । जा॒तम् । ज॒नि॒त॒व्य᳡म् । च॒ । केव॑लम् । स्तौमि॑ । अ॒ग्निम् । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.७॥


    स्वर रहित मन्त्र

    यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम्। स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    यस्य । इदम् । प्रऽदिशि । यत् । विऽरोचते । यत् । जातम् । जनितव्यम् । च । केवलम् । स्तौमि । अग्निम् । नाथित: । जोहवीमि । स: । न: । मुञ्चतु । अंहस: ॥२३.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 7

    टिप्पणीः - ७−(यस्य) अग्नेः परमेश्वरस्य (इदम्) परिदृश्यमानं जगत् (प्रदिशि) प्रदेशने। प्रशासने (यत्) (विरोचते) विविधं दीप्यते (यत्) (जातम्) उत्पन्नम् (जनितव्यम्) जनयितव्यम्। जनिष्यमाणम् (च) समुच्चये (केवलम्) अ० ३।१८।२। निश्चितम्। अनन्यसाधारणम् (स्तौमि) प्रशंसामि (अग्निम्) सर्वव्यापकं परमेश्वरम् (नाथितः) तदस्य संजातं तारकादिभ्य इतच्। पा० ५।२।३६। इति नाथ-इतच्। नाथः स्वामी संजातो यस्य स नाथितः। नाथवान्। भक्तः (जोहवीमि) अ० २।१२।३। पुनः पुनराह्वयामि। अन्यद् व्याख्याम् म० १ ॥

    इस भाष्य को एडिट करें
    Top