अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 2
य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑। येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठय: । उ॒ग्रीणा॑म् । उ॒ग्रऽबा॑हु: । य॒यु: । य: । दा॒न॒वाना॑म् । बल॑म् । आ॒ऽरु॒रोज॑ । येन॑ । जि॒ता: । सिन्ध॑व: । येन॑ । गाव॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.२॥
स्वर रहित मन्त्र
य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज। येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठय: । उग्रीणाम् । उग्रऽबाहु: । ययु: । य: । दानवानाम् । बलम् । आऽरुरोज । येन । जिता: । सिन्धव: । येन । गाव: । स: । न: । मुञ्चतु । अंहस: ॥२४.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यः) इन्द्रः (उग्रीणाम्) षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति उग्र-ङीप्। उग्रस्व भावानां प्रजानां सेनानां वा (उग्रबाहुः) उग्रा बाहवो यस्मात् स तथाभूतः। अतिशयेन बलदाता, इत्यर्थः (ययुः) यो द्वे च। उ० १।२१। इति या प्रापणे-उ प्रत्ययः, द्वित्वं च। शीघ्रगामी (दानवानाम्) दो अवखण्डने-ल्युट्। इति दानं छेदनम्। ततः छन्दसीवनिपौ च। वा० पा० ५।२।१०९। इति-व प्रत्ययो मत्वर्थे। छेदनशीलानां राक्षसानाम् (बलम्) सामर्थ्यम् (आ-रुरोज) रुजो भङ्गे-लिट्। सर्वतो बभञ्ज (येन) इन्द्रेण (जिताः) वशीकृताः (सिन्धवः) स्यन्दनशीलानि जलानि (गावः) गच्छतीति गौः। वायुसूर्यभूलोकाः। अन्यद्गतम् ॥
इस भाष्य को एडिट करें