Loading...
अथर्ववेद > काण्ड 4 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 4
    सूक्त - मृगारः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्वर॑वः स्व॒र्विदे॑। यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    यस्य॑ । व॒शास॑: । ऋ॒ष॒भास॑: । उक्ष॒ण:॑ । यस्मै॑ । मी॒यन्ते॑ । स्वर॑व:। स्व॒:ऽविदे॑ । यस्मै॑ । शु॒क्र: । पव॑ते । ब्रह्म॑ऽशुम्भित: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.४॥


    स्वर रहित मन्त्र

    यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे। यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    यस्य । वशास: । ऋषभास: । उक्षण: । यस्मै । मीयन्ते । स्वरव:। स्व:ऽविदे । यस्मै । शुक्र: । पवते । ब्रह्मऽशुम्भित: । स: । न: । मुञ्चतु । अंहस: ॥२४.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 4

    टिप्पणीः - ४−(यस्य) इन्द्रस्य परमेश्वरस्य (वशासः) असुगागमः। वशाः। अधीनाः सन्तः (ऋषभासः) अ० ३।६।४। असुगागमः। ऋषन्ति प्राप्नुवन्ति-सर्वान् मन्त्रानिति ऋषभाः। साक्षात्कृतधर्माण ऋषयः। ऋषिर्दर्शनात्-निरु० २।११। श्रेष्ठः (उक्षणः) अ० ३।११।८। उक्षाणः। बलवन्तः (यस्मै) इन्द्राय (मीयन्ते) डुमिञ् प्रक्षेपणे। स्थाप्यन्ते (स्वरवः) शॄस्वृस्निहि०। उ० १।१०। इति स्वृ शब्दोपतापयोः-उ। यूपाः। जयस्तम्भाः (स्वर्विदे) म० ३। स्वर्गप्रापकाप (शुक्रः) अ० २।११।५। शुक्रं शोचतेर्ज्वलतिकर्मणः-निरु० ८।११। निर्मलो रसवान् सोमः (पवते) गच्छति-निघ० २।१४। पूयते (ब्रह्मशुम्भितः) शुम्भ भाषणभासनहिंसासु−क्तः। ब्रह्मभिर्वेदैः शुम्भितो भाषितः कथितः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top