Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 5
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्। अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    र॒यिम् । मे॒ । पोष॑म् । स॒वि॒ता । उ॒त । वा॒यु: । त॒नू इति॑ । दक्ष॑म् । आ । सु॒व॒ता॒म् । सु॒ऽशेव॑म् । अ॒य॒क्ष्मऽता॑तिम् । मह॑: । इ॒ह । ध॒त्त॒म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.५॥


    स्वर रहित मन्त्र

    रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम्। अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    रयिम् । मे । पोषम् । सविता । उत । वायु: । तनू इति । दक्षम् । आ । सुवताम् । सुऽशेवम् । अयक्ष्मऽतातिम् । मह: । इह । धत्तम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 5

    टिप्पणीः - ५−(रयिम्) धनम् (मे) मह्यम् (पोषम्) पुष्टिं समृद्धिम् (सविता) सूर्यः (उत) अपि च (वायुः) पवनः (तनू) सुपां सुलुक्०। पा० ७।१।३९। इति। सप्तम्या लुक्। ईदूतौ च सप्तम्यर्थे। पा० १।१।१९। इति प्रगृह्यम्। तन्वाम्। स्वशरीरे वर्तमानम् (दक्षम्) बलम्-निघ० २।९। (आसुवताम्) षू प्रेरणे। समन्तात् प्रेरयताम्। प्रयच्छताम् (सुशेवम्) इणशीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने-वन्। शेवं सुखम्-निघ० ३।६। अतिशयेन सुखकरम् (अयक्ष्मतातिम्) भावे च। पा० ४।४।१४४। इति बाहुलकात् भावे तातिल्। अयक्ष्मताम्। यक्ष्माद् राहित्यम्। आरोग्यम् (महः) तेजः (इह) अस्मिन् शरीरे (धत्तम्) दत्तम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top