अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 2
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्थि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे। ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठययो॑: । सम्ऽख्या॑ता । वरि॑मा । पार्थि॑वानि । याभ्या॑म् । रज॑: । यु॒पि॒तम् । अ॒न्तरि॑क्षे । ययो॑: । प्र॒ऽअ॒यम् । न । अ॒नु॒ऽआ॒न॒शे । क: । च॒न । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.२॥
स्वर रहित मन्त्र
ययोः संख्याता वरिमा पार्थिवानि याभ्यां रजो युपितमन्तरिक्षे। ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठययो: । सम्ऽख्याता । वरिमा । पार्थिवानि । याभ्याम् । रज: । युपितम् । अन्तरिक्षे । ययो: । प्रऽअयम् । न । अनुऽआनशे । क: । चन । तौ । न: । मुञ्चतम् । अंहस: ॥२५.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ययोः) वायुसवित्रोः (संख्याता) संख्यातानि परिगणितानि (वरिमा) पृथ्वादिभ्य इमनिज् वा। पा० ५।१।१२२। इति। उरु-इमनिच्। प्रियस्थिर०। पा० ६।४।१५७। इति वर् आदेशः शेर्लोपः। वरिमाणि। उरुत्वानि। महत्वानि। (पार्थिवानि) पृथिव्या ञाञौ। वा० पा० ४।१।८५। इति पृथिवी-अञ्। पृथिव्यां भवानि जातानि (याभ्याम्) वायुसवितृभ्याम् (रजः) अ० ४।१।४। उदकम्। जगत् (युपितम्) युप विमोहने-क्त। विमोहितम्। ताडनैर्मेघमण्डलं धृतम् (अन्तरिक्षे) आकाशे (प्रायम्) एरच् पा० ३।३।५६। इति प्र+इण् गतौ-अच्। प्रकृष्टागमनम् (न) निषेधे (अन्वानशे) अशू व्याप्तौ-लिट्। अनुप्राप। अनुगन्तुं समर्थो बभूव (कश्चन) कोऽपि जीवः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें