Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 1
    सूक्त - मृगारः देवता - वायु, सविता छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः। यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    वा॒यो: । स॒वि॒तु: । वि॒दथा॑नि । म॒न्म॒हे॒ । यौ । आ॒त्म॒न्ऽवत् । वि॒शथ॑: । यौ । च॒ । रक्ष॑थ: । यौ । विश्व॑स्य । प॒रि॒भू इति॑ प॒रि॒ऽभू । ब॒भू॒वथु॑: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.१॥


    स्वर रहित मन्त्र

    वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः। यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    वायो: । सवितु: । विदथानि । मन्महे । यौ । आत्मन्ऽवत् । विशथ: । यौ । च । रक्षथ: । यौ । विश्वस्य । परिभू इति परिऽभू । बभूवथु: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 1

    टिप्पणीः - १−(वायोः) कृवापा०। उ० १।१। इति वा गतिगन्धनयोः-उण्, युगागमः। गमनशीलस्य दोषनाशकस्य वा जगदाधारभूतस्य वातस्य (सवितुः) सर्वप्रेरकस्य सूर्यस्य (विदथानि) विद ज्ञाने-अथ। वेदितव्यानि कर्माणि (मन्महे) जानीमः। विचारयामः (यौ) वायुसवितारौ युवाम् (आत्मन्वत्) अ० ४।१०।७। सात्मकं स्थावरजङ्गमात्मकं जगत्। जीवनशक्तियुक्तम् (विशथः) प्रविशथः (यौ) या प्रापणे-ड। यातारौ। गन्तारौ सन्तौ (रक्षथः) पालयथः (विश्वस्य) सर्वस्य जगतः (परिभू) अ० ३।२१।४। सुपां सुलुक्०। पा० ७।१।३९। इति पूर्वसवर्णदीर्घः। परिग्रहीतारौ। सर्वतो व्यापकौ (बभूवथुः) (तौ) तथाभूतौ युवाम् (नः) अस्मान् (मुञ्चतम्) मोचयतम् (अंहसः) कष्टात् ॥

    इस भाष्य को एडिट करें
    Top