अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 1
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनानिरीक्षण सूक्त
त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्। ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥
स्वर सहित पद पाठत्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्त॑: । हर्ष॑माणा: । हृ॒षि॒तास॑: । म॒रु॒त्व॒न् । ति॒ग्मऽइ॑षव: । आयु॑धा । स॒म्ऽशिशा॑ना: । उप॑ । प्र । य॒न्तु॒ । नर॑: । अ॒ग्निऽरू॑पा: ॥३१.१॥
स्वर रहित मन्त्र
त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन्। तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥
स्वर रहित पद पाठत्वया । मन्यो इति । सऽरथम् । आऽरुजन्त: । हर्षमाणा: । हृषितास: । मरुत्वन् । तिग्मऽइषव: । आयुधा । सम्ऽशिशाना: । उप । प्र । यन्तु । नर: । अग्निऽरूपा: ॥३१.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(त्वया) मन्युना (मन्यो) यजिमनिशुन्धि०। उ० ३।२०। इति मन ज्ञाने गर्वे च-युच्, अनादेशाभावः। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वध-कर्मणो वा मन्यन्त्यस्मादिषवः-निरु० १०।२९। हे क्रोध-निघ० २।१३। (सरथम्) समानं रथमारुह्य। सरथमारुह्य-निरु० १०।३०। (आरुजन्तः) आभञ्जन्तः पीडयन्तः शत्रून् (हर्षमाणाः) हृष तुष्टौ-शानच्। हर्षं कुर्वाणाः (हृषितासः) संतुष्टाः सन्तः (मरुत्वन्) अ० १।२०।१। मरुद्भिः शूरैर्युक्त (तिग्मेषवः) तीक्ष्णशराः (आयुधा) आयुधानि खड्गादीनि शस्त्राणि (संशिशानाः) शो तनूकरणे−कानच्। संश्यन्तः। तीक्ष्णीकुर्वन्तः। (उप) व्याप्तौ (प्र यन्तु) प्रकर्षेण गच्छन्तु (नरः)। नयतेर्डिच्च। उ० २।१००। इति णीञ् प्रापणे-ऋ। नेतारः (अग्निरूपाः) अग्निवत्तीक्ष्णदाहादिकर्माणः। यद्वा सन्नद्धाः कवचिनः। अग्निरूपा अग्निकर्माणः सन्नद्धाः कवचिन इति वा-निरु० १०।३० ॥
इस भाष्य को एडिट करें