अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 7
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनानिरीक्षण सूक्त
संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः। भियो॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥
स्वर सहित पद पाठसम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् ।अ॒स्मभ्य॑म् । ध॒त्ता॒म् । वरु॑ण: । च॒ । म॒न्यु: । भिय॑: । दधा॑ना: । हृद॑येषु । शत्र॑व: । परा॑जितास: । अप॑ । नि । ल॒य॒न्ता॒म् ॥३१.७॥
स्वर रहित मन्त्र
संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः। भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥
स्वर रहित पद पाठसम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् ।अस्मभ्यम् । धत्ताम् । वरुण: । च । मन्यु: । भिय: । दधाना: । हृदयेषु । शत्रव: । पराजितास: । अप । नि । लयन्ताम् ॥३१.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(संसृष्टम्) सृज विसर्गे-क्त। संगृहीतम् (धनम्) वित्तम् (उभयम्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति उभ-तयप्। उभादुदात्तो नित्यम्। पा० ५।२।४४। इति तयपोऽयजादेशः। उभयविधम्। आत्मिकं समाजिकं चेत्यर्थः (समाकृतम्) समानीतम् (अस्मभ्यम्) (धत्ताम्) प्रयच्छताम्। दत्ताम् (वरुणः) वरणीयः स्वीकरणीयः शूरः (च) समुच्चये (मन्युः) म० १। क्रोधः (भियः) ञिभी भये-संपदादित्वात् क्विप्। भयानि (दधानाः) धारयन्तः (हृदयेषु) मनःसु (शत्रवः) अरयः (पराजितासः) पराजिताः। अभिभूताः (अप) अपक्रम्य (नि) नितराम्। नीचैः (लयन्ताम्) लीङ् श्लेषणे-लोट्। लयं प्रलयं विनाशं प्राप्नुवन्तु। प्रच्छन्नं वर्तन्ताम् ॥
इस भाष्य को एडिट करें