अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 1
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - जगती
सूक्तम् - सेनासंयोजन सूक्त
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक्। सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा व॒यं सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
स्वर सहित पद पाठय: । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सह॑: । ओज॑: । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । स॒ह्याम्॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । व॒यम् । सह॑:ऽकृतेन । सह॑सा । सह॑स्वता ॥३२.१॥
स्वर रहित मन्त्र
यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्। साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥
स्वर रहित पद पाठय: । ते । मन्यो इति । अविधत् । वज्र । सायक । सह: । ओज: । पुष्यति । विश्वम् । आनुषक् । सह्याम् । दासम् । आर्यम् । त्वया । युजा । वयम् । सह:ऽकृतेन । सहसा । सहस्वता ॥३२.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यः) पुरुषः (ते) तव (मन्यो) अ० ४।३१।१। हे दीप्तिमन् क्रोध ! (अविधत्) विध विधाने-लङ्। विधेम परिचरणकर्मा-निघ० ३।५। परिचरणं शुश्रूषणं कृतवान् (वज्र) हे व्यापनशील वज्ररूप (सायक) हे शत्रुनाशक (सहः) शारीरिकं बलम् (ओजः) सामाजिकं बलम् (पुष्यति) वर्धयति (विश्वम्) सर्वम् (आनुषक्) अनुपूर्वात् षञ्ज सङ्गे-क्विप्। अनिदिताम्। पा० ६।४।२४। इति नलोपः। अनोरकारस्य दीर्घश्छान्दसः। अनुषगिति नामानुपूर्वस्यानुषक्तं भवति। निरु० ६।१४। अनुषक्तमुपर्युपरि लग्नम्। निरन्तरम् (सह्याम्) वेर्लोपः। वि+षह निर्णये। विषह्याम निर्णयाम (दासम्) उदसिरे उत्क्षेपे-घञ्। दासो दस्यतेः, उपदासयति कर्माणि-निरु० २।१७। उत्क्षपयितारम्। दस्युं चोरम् (आर्थम्) अ० ४।२०।४। श्रेष्ठम्। विद्वांसम्। (त्वया) मन्युना (युजा) सहायेन (वयम्) पुरुषार्थिनः पुरुषाः (सहस्कृतेन) सहसा बलेनोत्पादितेन (सहसा) बलेन (सहस्वता) बलवता ॥
इस भाष्य को एडिट करें