अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 7
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ नोऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑। जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भावु॑पां॒शु प्र॑थ॒मा पि॑बाव ॥
स्वर सहित पद पाठअ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒त: । भ॒व॒ । न॒: । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ । जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्व॑: । अग्र॑म् । उ॒भौ । उ॒प॒ऽअं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥३२.७॥
स्वर रहित मन्त्र
अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि। जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥
स्वर रहित पद पाठअभि । प्र । इहि । दक्षिणत: । भव । न: । अध । वृत्राणि । जङ्घनाव । भूरि । जुहोमि । ते । धरुणम् । मध्व: । अग्रम् । उभौ । उपऽअंशु । प्रथमा । पिबाव ॥३२.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(अभि) (प्र) (इहि) गच्छ (दक्षिणतः) दक्षिणोत्तराभ्यामतसुच्। पा० ५।३।२८। इति अतसुच्। दक्षिणभागे परमसहायकत्वेन (भव) (नः) अस्माकम् (अध) अथ। अनन्तरम् (वृत्राणि) तमांसि (जङ्घनाव) हन्तेर्यङ्लुगन्ताल् लोटि। आडुत्तमस्य पिच्च। पा० ३।४।५२। इति आडागामः। आवामतिशयेन हनाव (भूरि) भूरीणि बहूनि (जुहोमि) ददामि (ते) तुभ्यम् (धरुणम्) अ० ३।१२।३। धर्तव्यम्। स्तुतिरूपं रसम् (मध्वः) मधोः। मधुररसस्य (अग्रम्) श्रेष्ठं सारभूतम् (उभौ) अहं च मन्युश्च (उपांशु) निर्जने देशे (प्रथमा) प्रथमौ। शत्रुभ्यः पूर्वभाविनौ सन्तौ (पिबाव) आवां पानं करवाव ॥
इस भाष्य को एडिट करें