Loading...
अथर्ववेद > काण्ड 4 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 2
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - त्रिष्टुप् सूक्तम् - सेनासंयोजन सूक्त

    म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः। म॒न्युर्विश॑ ईडते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥

    स्वर सहित पद पाठ

    म॒न्यु: । इन्द्र॑: । म॒न्यु: । ए॒व । आ॒स॒ । दे॒व: । म॒न्यु: । होता॑ । वरु॑ण: । जा॒तऽवे॑दा: । म॒न्युम् । विश॑: । ई॒ड॒ते॒ । मानु॑षी: । या: । पा॒हि । न॒: । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषा॑:॥३२.२॥


    स्वर रहित मन्त्र

    मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः। मन्युर्विश ईडते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥

    स्वर रहित पद पाठ

    मन्यु: । इन्द्र: । मन्यु: । एव । आस । देव: । मन्यु: । होता । वरुण: । जातऽवेदा: । मन्युम् । विश: । ईडते । मानुषी: । या: । पाहि । न: । मन्यो इति । तपसा । सऽजोषा:॥३२.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 2

    टिप्पणीः - २−(मन्युः) दीप्यमानः क्रोधः (इन्द्रः) ऐश्वर्यवान् (एव) निश्चयेन (आस) अस्तेर्लिटि छान्दसो भूभावाभावः। बभूव (देवः) दिव्यगुणयुक्तः। प्रकाशमानः (होता) दाता ग्रहीता वा (वरुणः) श्रेष्ठः। (जातवेदाः) अ० १।७।२। जातधनः (मन्युः) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति द्वितीयार्थे प्रथमा। मन्युं क्रोधम् (विशः) प्रजाः (ईडते) स्तुवन्ति (मानुषीः) मनोर्जातावञ्यतौ षुक्च। पा० ४।१।१६१। इति मनु-अञ् षुक् च टिड्ढाण०। पा० ४।१।१५। इति-ङीप् यद्वा। जनेरुसिः। उ० २।११५। इति मनु अवबोधने-उसि ! मनुष्-अण्, ङीप्। मानुष्यः। मनुष्यजातीयाः (याः) या गतौ-ड, टाप्। उद्योगशीलाः (पाहि) रक्ष (नः) अस्मान् (मन्यो) हे क्रोध (तपसा) तप संतापैश्वर्ययोः-असुन्। प्रतापेन। ऐश्वर्येण (सजोषाः) जुषी-असुन्। समानप्रीतिः ॥

    इस भाष्य को एडिट करें
    Top