अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 3
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
अ॒भीहि॑ मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न्। अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥
स्वर सहित पद पाठअ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वस॑: । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् । अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । न॒: ॥३२.३॥
स्वर रहित मन्त्र
अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून्। अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥
स्वर रहित पद पाठअभि । इहि । मन्यो इति । तवस: । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् । अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । न: ॥३२.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अभीहि) अभिमुखं गच्छ (मन्यो) हे क्रोध (तवसः) तु सौत्रो धातुर्गतिवृद्धिहिंसासु-असुन्। तवसे इति महतोनामधेयम्-निरु० ५।९। तवः, इति बलनाम-निघ० २।९। महतः प्रवृद्धादपि (तवीयान्) तोतृ-ईयसुन् तृलोपः। प्रवृद्धतरः (तपसा) सामर्थ्येन (युजा) सहायेन (वि जहि) विनाशय (शत्रून्) अरीन् (अमित्रहा) अ० १।१९।२। पीडकनाशकः (वृत्रहा) शत्रुहन्ता (दस्युहा) चोरादीनां घातकः (च) (विश्वा) सर्वाणि (वसूनि) धनानि (आ) समन्तात् (भर) धारय (त्वम्) (नः) अस्मभ्यम् ॥
इस भाष्य को एडिट करें