Loading...
अथर्ववेद > काण्ड 4 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 6
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - त्रिष्टुप् सूक्तम् - सेनासंयोजन सूक्त

    अ॒यं ते॑ अ॒स्म्युप॑ न॒ एह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वदावन्। मन्यो॑ वज्रिन्न॒भि न॒ आ व॑वृत्स्व॒ हना॑व॒ दस्यूं॑रु॒त बो॑ध्या॒पेः ॥

    स्वर सहित पद पाठ

    अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । न॒: । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒न: । स॒हु॒रे॒ । वि॒श्व॒ऽदा॒व॒न् । मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । न॒: । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पे: ॥३२.६॥


    स्वर रहित मन्त्र

    अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन्। मन्यो वज्रिन्नभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥

    स्वर रहित पद पाठ

    अयम् । ते । अस्मि । उप । न: । आ । इहि । अर्वाङ् । प्रतीचीन: । सहुरे । विश्वऽदावन् । मन्यो इति । वज्रिन् । अभि । न: । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपे: ॥३२.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 6

    टिप्पणीः - ६−(अयम्) पुरुषार्थी (ते) तव (अस्मि) (उप) समीपे (नः) अस्माकम् (आ इहि) आगच्छ (अर्वाङ्) अभिमुखः (प्रतीचीनः) विभाषाञ्चेरदिक् स्त्रियाम्। पा० ५।४।८। इति प्रत्यच्-स्वार्थे ख। अल्लोपो दीर्घश्च। प्रत्यञ्चन्। प्रत्यक्षं गच्छन् (सहुरे) हे शक्तिमन् (विश्वदावन्) विश्व+डुदाञ्-वनिप्। हे सर्वस्य दातः। (मन्यो) हे क्रोध (वज्रिन्) हे वज्रोपेत (अभि) अभिलक्ष्य (नः) अस्मान् (आ) समन्तात् (ववृत्स्व) छान्दसः शपः श्लुः। वर्तस्व (हनाव) आवां हिनसाव (दस्यून्) उपक्षपयितॄन् दुष्टान् (उत) अपि च (बोधि) बुध अवगमने लोटि छान्दसं रूपम्। बुध्यस्व। बोधं कुरु (आपेः) इणजादिभ्यः। वा० पा० ३।३।१०८। इति आप्लृ व्याप्तौ-इण्। बन्धोः ॥

    इस भाष्य को एडिट करें
    Top