अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 6
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनानिरीक्षण सूक्त
आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्षि सहभूत॒ उत्त॑रम्। क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥
स्वर सहित पद पाठआऽभू॑त्या । स॒ह॒ऽजा: । व॒ज्र॒ । सा॒य॒क॒ । सह॑: । बि॒भ॒र्षि॒ । स॒ह॒ऽभू॒ते॒ । उत्ऽत॑रम् । क्रत्वा॑ । न॒: । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒ऽध॒नस्य॑ । पु॒रु॒ऽहू॒त॒ । स॒म्ऽसृजि॑ ॥३१.६॥
स्वर रहित मन्त्र
आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम्। क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥
स्वर रहित पद पाठआऽभूत्या । सहऽजा: । वज्र । सायक । सह: । बिभर्षि । सहऽभूते । उत्ऽतरम् । क्रत्वा । न: । मन्यो इति । सह । मेदी । एधि । महाऽधनस्य । पुरुऽहूत । सम्ऽसृजि ॥३१.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(आभूत्या) विभूत्या (सहजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति जनी-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। सह जायते प्रादुर्भवतीति सहजाः (वज्र) अ० १।७।७। (सायक) षो अन्तकर्मणि-ण्वुल्, युक् च। हे अन्तकर (सहः) बलम् (बिभर्षि) धारयसि (सहभूते) आत्मना सह भूतिः सम्पत्तिर्यस्य तत्सबुद्धौ (उत्तरम्) उत्कृष्टतरम् (क्रत्वा) कृञः कतुः। उ० १।७६। क्रतुना कर्मणा-निघ० २।१। प्रज्ञया-निघ० ३।९। (नः) अस्माकम् (मन्वो) (सह) सार्धम् (मेदी) मेद-इनि। स्नेही (एधि) भव (महाधनस्य) महान्ति धनानि प्राप्यन्ते यस्मिन् तस्य महाधनस्य संग्रामस्य-निघ० २।१७। (पुरुहूत) हे बहुभिराहूत ! (संसृजि) सृज-क्विप्। संसर्गे संयोजने सति ॥
इस भाष्य को एडिट करें