Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 6
    सूक्त - शुक्रः देवता - वायुः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    ये॑ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । अ॒न्तरि॑क्षात् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । वि॒ऽअ॒ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । वा॒युम् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.६॥


    स्वर रहित मन्त्र

    येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान्। वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । अन्तरिक्षात् । जुह्वति । जातऽवेद: । विऽअध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । वायुम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 6

    टिप्पणीः - ६−(अन्तरिक्षात्) अ–० १।३०।३१। आकाशात् (व्यध्यायाः) उपसर्गादध्वनः। पा० ५।४।८५। इति वि+अध्वन्-अच् समासान्तः। विविधमार्गायाः (वायुम्) अ० २।२०।१। बलिनां बलिष्ठं त्वामीश्वरम् ॥

    इस भाष्य को एडिट करें
    Top