अथर्ववेद - काण्ड 4/ सूक्त 5/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - वृषभः, स्वापनम्
छन्दः - अनुष्टुप्
सूक्तम् - स्वापन सूक्त
प्रो॑ष्ठेश॒यास्त॑ल्पेश॒या नारी॒र्या व॑ह्य॒शीव॑रीः। स्त्रियो॒ याः पुण्य॑गन्धय॒स्ताः सर्वाः॑ स्वापयामसि ॥
स्वर सहित पद पाठप्रो॒ष्ठे॒ऽश॒या: । त॒ल्पे॒ऽश॒या: । नारी॑: । या: । व॒ह्य॒ऽशीव॑री: । स्रिय॑: । या: । पुण्य॑ऽगन्धय: । ता: । सर्वा॑: । स्वा॒प॒या॒म॒सि॒ ॥५.३॥
स्वर रहित मन्त्र
प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः। स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥
स्वर रहित पद पाठप्रोष्ठेऽशया: । तल्पेऽशया: । नारी: । या: । वह्यऽशीवरी: । स्रिय: । या: । पुण्यऽगन्धय: । ता: । सर्वा: । स्वापयामसि ॥५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 5; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(प्रोष्ठेशयाः) उषिकुषिगर्त्तिभ्यस्थन्। उ० २।४। इति उष दाहे-थन्। इति ओष्ठः। एङि पररूपम्। पा० ६।१।९४। अत्र वार्त्तिकम्। ओत्वोष्ठयोः समासे वा। इति पररूपम्। अधिकरणे शेतेः। पा० ३।२।१५। इति प्रोष्ठे+शीङ् शयने-अच्। शयवासवासिष्वकालात्। पा० ६।३।१८। इति सप्तम्या अलुक्। प्रोष्ठे अतिशयेन प्रौढे गृहे प्राङ्गणे वा शयानाः (तल्पेशयाः) खष्पशिल्पशष्प०। उ० ३।२८। इति तल प्रतिष्ठायाम्-प प्रत्ययः। शेषे पूर्ववत् सिद्धिः। खट्वासु शयानाः। (नारीः) नार्यः। (वह्यशीवरीः) वह्यं करणम्। पा० ३।१।१०२। इति वह प्रापणे-यत्। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति वह्य+शीङ्-क्वनिप्। वनो र च। पा० ४।१।७। इति ङीब्रेफौ। वा छन्दसि। पा० ६।१।१०१। इति जसि पूर्वसवर्णदीर्घः। वह्ये वहनसाधने आन्दोलिकादौ शयनस्वभावाः (पुण्यगन्धयः) पूञो यण् णुग्घ्रस्वश्च। उ० ५।१५। इति पूञ् शोधे-यत्, णुक् च। सर्वधातुभ्य इन्। उ० ४।११८। इति गन्ध गतिहिंसायाचनेषु-इन्। पुण्यं पवित्रं गन्धिगमनं यासां ताः पवित्रगतयः। अन्यद् गतम् ॥
इस भाष्य को एडिट करें