अथर्ववेद - काण्ड 4/ सूक्त 5/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वृषभः, स्वापनम्
छन्दः - अनुष्टुप्
सूक्तम् - स्वापन सूक्त
स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑। स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ॥
स्वर सहित पद पाठस्वप्तु॑ । मा॒ता । स्वप्तु॑ । पि॒ता । स्वप्तु॑ । श्वा । स्वप्तु॑ । वि॒श्पति॑: । स्वप॑न्तु । अ॒स्यै॒ । ज्ञा॒तय॑: । स्वप्तु॑ । अ॒यम् । अ॒भित॑: । जन॑: ॥५.६॥
स्वर रहित मन्त्र
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः। स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥
स्वर रहित पद पाठस्वप्तु । माता । स्वप्तु । पिता । स्वप्तु । श्वा । स्वप्तु । विश्पति: । स्वपन्तु । अस्यै । ज्ञातय: । स्वप्तु । अयम् । अभित: । जन: ॥५.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 5; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(स्वप्तु) ञिष्वप् शयने। इडभावश्छान्दसः। स्वपितु। निद्रातु (माता) जननी (पिता) जनकः (श्वा) म० २। गमनशीलः। वृद्धिशीलः। कुक्कुरः (विश्पतिः) विशां प्रजानां पालको गृही। गृहाधिपतिः (स्वपन्तु) निद्रान्तु (अस्यै) दृश्यमानायै प्रजायै सन्तत्यै। कन्यायाः पुत्रस्य वा हिताय (ज्ञातयः) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति ज्ञा ज्ञाने-क्तिच्। जानाति कुलस्थितिं स ज्ञातिः। एककुलोत्पन्नाः। पितृव्याद्यः। बान्धवाः। सम्बन्धिनः (अमितः) परितः स्थितः (जनः) लोकः। मनुष्यसमूहः ॥
इस भाष्य को एडिट करें