Loading...
अथर्ववेद > काण्ड 4 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 7
    सूक्त - गरुत्मान् देवता - विषम् छन्दः - अनुष्टुप् सूक्तम् - विषघ्न सूक्त

    ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्। सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ॥

    स्वर सहित पद पाठ

    ये । अपी॑षन् । ये । अदि॑हन् । ये । आस्य॑न् । ये । अ॒व॒ऽअसृ॑जन् । सर्वे॑ । ते । वध्र॑य: । कृ॒ता: । वध्रि॑: । वि॒ष॒ऽगि॒रि: । कृ॒त: ॥६.७॥


    स्वर रहित मन्त्र

    ये अपीषन्ये अदिहन्य आस्यन्ये अवासृजन्। सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥

    स्वर रहित पद पाठ

    ये । अपीषन् । ये । अदिहन् । ये । आस्यन् । ये । अवऽअसृजन् । सर्वे । ते । वध्रय: । कृता: । वध्रि: । विषऽगिरि: । कृत: ॥६.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 7

    टिप्पणीः - ७−(ये) जनाः (अपीषन्) पिष्लृ संचूर्णने लङि छान्दसं रूपम्। अपिंषन्। पिष्टवन्तः। विषमिति शेषः (अदिहन्) दिह उपचये=वृद्धौ-लङ्। लिप्तवन्तः। (आस्यन्) म० ४। दूरात् क्षिप्तवन्तः (अव-असृजन्) सृज विसर्गे-लङ्। अवसृष्टवन्तः। समीपे त्यक्तवन्तः (सर्वे) (ते) पूर्वोक्ता जनाः (वध्रयः) अ० ३।९।२। बन्ध बन्धने क्रिन्। विफलाः। निर्वीर्याः। (कृताः) निष्पादिताः। (वध्रिः) निर्वीर्यः (विषगिरिः) विषोत्पत्तिहेतुः पर्वतः ॥

    इस भाष्य को एडिट करें
    Top