Loading...
अथर्ववेद > काण्ड 4 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 8
    सूक्त - गरुत्मान् देवता - विषम् छन्दः - अनुष्टुप् सूक्तम् - विषघ्न सूक्त

    वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे। वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ॥

    स्वर सहित पद पाठ

    वध्र॑य: । ते॒ । ख॒नि॒तार॑: । वध्रि॑: । त्वम् । अ॒सि॒ । ओ॒ष॒धे॒ । वध्रि॑: । स: । पर्व॑त: । गि॒रि: । यत॑: । जा॒तम् । इ॒दम् । वि॒षम् ॥६.८॥


    स्वर रहित मन्त्र

    वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे। वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥

    स्वर रहित पद पाठ

    वध्रय: । ते । खनितार: । वध्रि: । त्वम् । असि । ओषधे । वध्रि: । स: । पर्वत: । गिरि: । यत: । जातम् । इदम् । विषम् ॥६.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 8

    टिप्पणीः - ८−(वध्रयः) म० ७। असमर्थाः (ते) तव (खनितारः) खननकर्तारः (वध्रिः) निर्वीर्या। निर्वीर्यः। (त्वम् असि) (ओषधे) अ० १।२३।१। उष दाहे-घञ्+डुधाञ् धारणपोषणयोः-कि। हे दाहधारक विष (सः) (पर्वतः) अ० १।१२।३। पर्व पूरणे अतच्। पर्वति पूरयति भूमिम्। यद्वा। पर्वमरुद्भ्यां तन् वक्तव्यः। वा० पा० ५।२।१२२। इति पर्वन्-तन् मत्वर्थे। पर्ववान्। अवयवयुक्तः (गिरिः) अ० २।२५।४। शैलः (यतः) यस्माद् गिरेः (जातम्) उत्पन्नम् (इदम्, विषम्) ॥

    इस भाष्य को एडिट करें
    Top