Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 4
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥

    स्वर सहित पद पाठ

    प्रा॒चीन॑म् । ब॒र्हि: । प्र॒ऽदिशा॑ । पृ॒थि॒व्या: । वस्तो॑: । अ॒स्या: । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् । वि ।ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑य: । दे॒वेभ्य॑: । अदि॑तये । स्यो॒नम् ॥१२.४॥


    स्वर रहित मन्त्र

    प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम्। व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥

    स्वर रहित पद पाठ

    प्राचीनम् । बर्हि: । प्रऽदिशा । पृथिव्या: । वस्तो: । अस्या: । वृज्यते । अग्रे । अह्नाम् । वि ।ऊं इति । प्रथते । विऽतरम् । वरीय: । देवेभ्य: । अदितये । स्योनम् ॥१२.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 4

    टिप्पणीः - ४−(प्राचीनम्) प्राक्तनम् (बर्हिः) प्रवृद्धं ब्रह्म (प्रदिशा) निर्देशेन। शासनेन (पृथिव्याः) भूमेः (वस्तोः) ईश्वरे तोसुन्कसुनौ। प० ३।४।११३। इति वस अच्छादने−तोसुन्। वसितुम्। आच्छादनं कर्तुम् (वृज्यते) त्यज्यते स्वातन्त्र्येण विचरतीत्यर्थः (अग्रे) पूर्ववर्तमानम् (अह्नाम्) दिनानां कालविभागानाम् (वि) विशेषेण (उ) एव (प्रथते) विस्तीर्यते (वितरम्) विशेषेण संतारकम् (वरीयः) अ० १।२।२। उरुतरम्। विस्तीर्णतरम् (देवेभ्यः) प्रकाशमानेभ्यः सूर्यादिलोकेभ्यः सकाशात् (अदितये) अ० २।२८।४। अखण्डनीयायै मुक्तये शान्तये (स्योनम्) अ० १।३३।१। सुखकरम् ॥

    इस भाष्य को एडिट करें
    Top