Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 6
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑। दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥

    स्वर सहित पद पाठ

    आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उ॒पाके॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ । दि॒व्ये इति॑ । योष॑ण॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥१२.६॥


    स्वर रहित मन्त्र

    आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ। दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

    स्वर रहित पद पाठ

    आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ । दिव्ये इति । योषण इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥१२.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 6

    टिप्पणीः - ६−(सुष्वयन्ती) सु+सु+अय गतौ−शतृ, ङीप्। अत्यन्तं सुष्ठु अयन्त्यौ। आसुष्वयन्ती... सेष्मीयमाणे इति वा सुष्वापयन्त्याविति वा−निरु० ८।११। (यजते) यज−अतच्। यष्टव्ये। संगतव्ये (उपाके) उप+अक गतौ−पचाद्यच्। सन्निहिते−अन्तिकनाम−निघ० २।१६। (उषासानक्ता) उषः किच्च। उ० ४।२३४। इति उष दाहे−असि, यद्वा उच्छी विवासे वा वश कान्तौ−असि। उषाः कस्मादुच्छतीति सत्या रात्रेरपरः कालः−निरु० २।१८। नज व्रीडायाम् क्तः। नक्तं रात्रिः। उषाश्च नक्तं च द्वन्द्वे। उषासोषसः। पा० ६।३।३१। इति उषासादेशः। द्विवचनस्याकारः। अहोरात्रे (आसदताम्) आ सीदताम्। आगच्छताम् (नि) नित्यम् (योनौ) गृहे−निघ० ३।४। (दिव्ये) दिव्यस्वरूपे (योषणे) युष सेवने−ल्यु। सेव्ये (बृहती) महत्यौ (सुरुक्मे) सुरोचने (अधि) अधिकम् (श्रियम्) शोभां लक्ष्मीं वा (शुक्रपिशम्) पिश अवयवे−क्विप्। शुक्रपिशम्... शुक्रपेशसम्... शुक्रं शोचतेर्ज्वलतिकर्मणः। पेश इति रूपनाम पिंशतेर्विपिशितं भवति−निरु० ८।११। शुद्धरूपयुक्ताम् (दधाने) धारयन्त्यौ ॥

    इस भाष्य को एडिट करें
    Top